पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२६
[स्कन्धः - ८
नारायणीये


उद्दामभ्रमणजवोन्नमद्गिरीन्द्रन्यस्तैकस्थिरतरहस्तपङ्कजं त्वाम् ।
अभ्रान्ते विधिगिरिशादयः प्रमोदादुद्भ्रान्ता नुनुवुरुपात्तपुष्पवर्षाः ॥ ९ ॥

 उद्दामेति । उद्दाम्ना सातिशयेन भ्रमणजवेनोन्नमति उत्पतति गिरीन्द्रे न्यस्तो निक्षिप्त एकः स्थिरतरहस्तपङ्कजो (?) येन तं त्वाम् । अभ्रान्ते मेघमार्ग उद्भ्रान्ताः प्रमोदविवशा नुनुवुस्तुष्टुवुः ॥ ९ ॥

दैत्यौघे भुजगमुखानिलेन तप्ते तेनैव त्रिदशकुलेऽपि किञ्चिदार्ते ।
कारुण्यात् तव किल देव ! वारिवाहाः प्रावर्षन्नमरगणान् न दैत्यसङ्घान् ॥

 दैत्यौघ इति । वारिवाहाः मेघाः ॥ १० ॥

उद्भ्राम्यद्बहुतिमिनक्रचक्रवाले तत्राब्धौ चिरमथितेऽपि निर्विकारे ।
एकस्त्वं करयुंगकृष्टसर्पराजः संराजन् पवनपुरेश ! पाहि रोगात् ॥ ११ ॥

 उद्भ्राम्यदिति । उद्ब्राम्यतामुत्पततां, तिमिर्महामत्स्यः, बहुतिमिनक्राणां चक्रवालं समूहो यस्मिन् । तत्र तस्मिन् ॥ ११ ॥

इत्यमृतमथने देवासुराणामशक्तौ भगवत्कृतमथनवर्ण

सप्तविंशं दशकं सैकम् ।

गरलं तरलानलं पुरस्ताज्जलधेरुद्विजगाल कालकूटम् ।
अमरस्तुतिवादमोदनिघ्नो गिरिशस्तन्निपपौ भवत्प्रियार्थम् ॥ १ ॥

 'गरलमिति । उद्विजगाल उद्गलितमभूत् तदामराणां गिरिशविषयो यः स्तुतिवादस्तन्निघ्नस्तदधीनः सन् तद् गरलं निपपौ पीतवान् ॥ १ ॥

विमथत्सु सुरासुरेषु जाता सुरभिस्तामृषिषु न्यधास्त्रिधामन् ! ।
इयरत्नमभूदथेभरत्नं घुतरुश्चाप्सरसः सुरेषु तानि ॥ २ ॥

 विमथत्स्विति । हयरत्नमुच्चैःश्रवाः । इभरत्नमैरावतः । घुतरुः कल्पवृक्षः। तानि सुरेषु च न्यधाः दत्तवान् ॥ २ ॥