पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - २८]
१२७
अमृतमथनवर्णनम् ।

जगदीश ! भवत्परा तदानीं कमनीया कमला बभूव देवी ।
अमलामवलोक्य यां विलोलः सकलोऽपि स्पृहयाम्बभूव लोकः ॥ ३ ॥

 जगदिति । भवान् परः प्रधानो यस्याः सा भवत्परा ॥ ३ ॥

त्वयि दत्तहृदे तदैव देव्यै त्रिदशेन्द्रो मणिपीठिकां व्यतारीत् ।
सकलोपहृताभिषेचनीयैर्ऋषयस्तां श्रुतिगीर्भिरभ्यषिञ्चन् ॥ ४ ॥

 त्वयीति । त्वयि दत्तं समर्पितं हृद् यया सा तथा तस्यै दत्तहृदे । यदैवमवगता, तदैव सकलैः सरिद्भूम्यादिभिरुपहृतैरभिषेचनीयैरभिषेकसाधनैरोषधीकुम्भपवित्रादिभिर्ऋषयस्तां महालक्ष्मी श्रुतिगीर्भिर्मन्त्रैरभ्यषिञ्चन् ॥ ४ ॥ ।

अभिषेकजलानुपातिमुग्धत्वदपाङ्गैरवभूषिताङ्गवल्लीम्
मणिकुण्डलपीतचेलहारप्रमुखैस्ताममरादयोऽन्वभूषन् ॥ ५ ॥

 अभिषेकेति । अभिषेकजलपातसमनन्तरं पतितुं शीलं येषां तैर्मुग्धैस्त्वदपाङ्गैरेवावभूषिता अङ्गवल्ली यस्यास्ताम् | अमरादयो मणिकुण्डलपीतचेलहारप्रमुखैरन्वभूषन् + अलञ्चक्रुः ॥ ५ ॥ वरणस्रजमात्तभृङ्गनादां दधती सा कुचकुम्भमन्दयाना । पदशिञ्जितमञ्जुनपुरा त्वां कलितव्रीलविलासमाससाद ॥ ६ ॥

 वरणेति । वरणस्रजं स्वयंवरमालाम् ॥ ६ ॥

गिरिशडहिणादिसर्वदेवान् गुणभाजोऽप्यविमुक्तदोषलेशान् ।
अवमृश्य सदैव सर्वरम्थे निहिता त्वय्यनयापि दिव्यमाला ॥ ७ ॥

 गिरिशेति । अविमुक्तदोषलेशान् कामक्रोधादिषड्दोषयुक्तान् अवमृश्य विचार्य सदैव सर्वैर्गुणैर्दोषरहितै रम्ये त्वयि तवांसदेशेऽनया श्रिया दिव्यमाला निहिता ॥ ७ ॥


+ 'भूष अलङ्कारे' भौवादिकः ।