उरसा तरसा ममानिथैनां भुवनानां जननीमनन्यभावाम् । |
उरसेति । त्वं च तरसैनामुरसा ममानिथ स्वोरसि निवासमकरोः । नान्यस्मिन् भावोऽनुरागो यस्याः सानन्यभावा । त्वदुरसि विलसन्त्यास्तस्या ईक्षणश्रियः सकरुणकटाक्षशोभायाः परिवृष्टया विश्वं परिपुष्टं सकलसम्पत्समृद्धम् आस अभूत् ॥ ८ ॥
अथ वारुणी देव्युदभूदित्याह---
अतिमोहनविभ्रमा तदानीं मदयन्ती खलु वारुणी निरागात् । |
अतीति । तमसोऽज्ञानस्य पदवीं हेतुभूतां वारुणीम् ॥ ९ ॥
अथ धन्वन्तर्यवतारमाह--
तरुणाम्बुदसुन्दरस्तदा त्वं ननु धन्वन्तरिरुत्थितोऽम्बुराशेः । |
इत्यमृतमथनवर्णनम् अष्टाविंशं दशकम् ।
उद्गच्छतस्तव करादमृतं हरत्सु |
उद्गच्छत इति । उद्गच्छतः प्रादुर्भवतः । अशरणाननन्यशरणान् । भवतः प्रभावः शक्तिर्माया तस्मादुद्यन् सयूथ्यकलहोऽन्योन्यविवादो येषां ते ॥ १ ॥
श्यामां रुचापि वयसापि तनुं तदानीं |
श्यामामिति । वयसापि श्यामां यौवनमध्यस्थाम् । भङ्गुरां नम्राम् । त्वदुरोजकुम्भे पीयूषादप्यतिमधुरे ॥ २ ॥
- ↑ 'परिय' घ. पाठः.