का त्वं मृगाक्षि! विभजस्व सुधामिमामि- |
केति । हे दैत्याः ! अहं कुलटा पुंश्चल्यस्मि, भवद्भिः कथं मयि विश्वस्यते इत्यालपन्नपि तदानीन्तनसप्रेमम्मितकटाक्षादिभिः[१] सुविश्वसितानतानीः ॥ ३ ॥
मोदात् सुधाकलशमेषु ददत्सु सा त्वं |
मोदादिति । यत्किञ्चिद् मया क्रियमाणं दुश्चेष्टितं सहध्वम् । पङ्क्तिप्रभेदेन द्विधा विनिवेशिता देवदैत्या यया सा तथा दैत्यान् वञ्चयितुं तद्विषयया ललिया विलासेन गत्यातिसमीपसञ्चरणेन च समदाः सम्यक् सुरेभ्य एवाददाः । तां जरामरणहारिणीं सुधामित्यर्थः ॥ ४ ॥
अस्मास्वियं प्रणयिनीत्यसुरेषु तेषु |
अस्मास्विति । असुरेषु तु अस्मास्वियं प्रणयिनी, अहो भाग्यम्, एषास्मान् न वञ्चयेदिति । जोषं तूष्णीम् । स्वर्भानुं देवलिङ्गच्छन्नं चक्रेण व्यलावीः शिरोऽच्छिनः ॥ ५ ॥
त्वत्तः सुधाहरणयोग्यफलं परेष |
- ↑ 'भिश्च सु' ग. पाठ:.