गांत्रेण भाविमहिमोचितगौरवं प्राग् |
गात्रेणेति । भाविमहिमा विश्वरूपं, तदुचितं गौरवं प्रांगेव धरणीचलनेन व्यावृण्वता प्रकाशयता । परेषां दैत्यानामूष्मणः पराक्रमस्य तिरणार्थं वारणार्थम् । सन्निधातुं दण्डयितुम् ॥ ७ ॥
तां नर्मदोत्तरतटे हयमेधशाला- |
तामिति । आसेदुषि प्राप्तवति ॥ ८ ॥
आनीतमाशु भृगुभिर्महसाभिभूतै- |
आनीतमिति । त्वन्महसाभिभूतै र्प्रष्टतेजस्कैर्भृगुभिः शुक्रेणानीतं प्रतिगृह्य बलिनिकटं नीतम् । असुरो बलि: । तीर्थतीर्थं सर्वशोधकम् ॥ ९ ॥
प्रह्लादवंशजतया क्रतुभिर्द्विजेषु |
प्रह्लादेति । भक्तोत्तंसप्रह्लादवंशजतया नु, क्रतुभिर्नु, द्विजेषु विश्वासतः सत्सङ्गान्नु, समस्तैरेतैर्नु (न) निश्चितं, बलिर्दितिजोऽपि तदिदं पादोदकस्य मूर्ध्नि