पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ३३]
१४१
अम्बरीषचरितवर्णनम् ।


धावन्नशेषभुवनेषु भिया स पश्यन्
 विश्वत्र चक्रमपि ते गतवान् विरिञ्चम् ।
कः कालचक्रमतिलङ्घयतत्यपास्तः
 शर्वे ययौ स च भवन्तमवन्दतैव ॥ ७ ॥

 धावन्निति । स विश्वत्र सर्वत्रापि ते चक्रं पश्यन् विरिञ्चं शरणं गतवान् । कः कालचक्रमतिलङ्घयतीति तद्वचनादपास्तः प्रतिनिवृत्तः शर्वे शिवं प्राप्तवान् । यस्य चक्रमिदं, तमेव हरिं शरणं व्रजेत्यभिप्रायेण स भवन्तमवन्दतैव ॥ ७ ॥

भूयो भवन्निलयमेत्य मुनिं नमन्तं
 प्रोचे भवानहमृषे ! ननु भक्तदासः ।
ज्ञानं तपश्च विनयान्वितमेव मान्यं
 याह्यम्बरीषपदमेव भजेति भूमन् ! ॥ ८ ॥

 भूय इति । भवन्निलयं वैकुण्ठम् । अहं भक्तानां दास इव, तदधीनत्वात् । नन्वहमपि ज्ञानतपोनिष्ठत्वात् त्वद्भक्त एव । सत्यम् । ज्ञानं तपश्च यदि विनयेनोपशमेन युक्तं भवति, तर्हेव मान्यं निःश्रेयसाय भवति । दुर्विनीतस्यैतद् द्वयमपि न सुखाय, यथा भवतः । तदम्बरीषस्य पदं पादावेव शरणं भज व्रज ॥ ८ ॥

भूतावत् समेत्य मुनिना स गृहीतपादो
 राजापसृत्य भवदत्रमसाव (नौषी?नावी)त् ।
चक्रे गते मुनिरदादखिलाशिषोऽस्मै
 त्वद्भक्तिमागसि कृतेऽपि कृपां च शंसन् ॥ ९॥

 तावदिति । सोऽम्बरीषः पादस्पर्शलज्जया अपसृत्य भवदस्त्रं सुदर्शनमनौषीत् तुष्टाव । चक्रे गते शान्ते सति आगसि कृत्योत्पादनापराधे कृतेऽपि स्वविषया मम्बरीषस्य कृपां शंसन् स्तुवन् अस्मा आशिषो वरान् ॥ ९ ॥

भूराजा प्रतीक्ष्य मुनिमेकसमामनाश्वान्
 सम्भोज्य साधु तमृषिं विसृजन् प्रसन्नम् ।