पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४६
[स्कन्धः - ९
नारायणीये


मायाक्षोभेषु वैभीषणवचनहृतस्तम्भनः कुम्भकर्णं
 सम्प्राप्तं कम्पितोर्वीतलमखिलचमूभक्षिणं व्यक्षिणोस्त्वम् ॥ ६ ॥
गृह्णन् जन्भारिसम्प्रेषितरथकवचौ रावणेनाभियुध्यन्*
 ब्रह्मास्त्रेणास्य भिन्दन् गलततिमवलामग्निशुद्धां प्रगृह्णन् ।
देव ! श्रेणीवरोज्जीवितसमरमृतैरक्षतैर्ऋक्षसङ्घै -
 र्लङ्काभर्त्रा च साकं निजनगरमगाः सप्रियः पुष्पकेण ॥ ७ ॥

 गृह्णन्निति । श्रेणीवरैर्हनुमदादिभिरुज्जीविताः समरमृता येषु ऋक्षसङ्घेषु । देवश्रेणीनां वरैरुज्जीविता इति वा ॥ ७ ॥

प्रीतो दिव्याभिषेकैरयुतसमधिकान् वत्सरान् पर्यरंसी-
 र्मैथिल्यां पापवाचा शिव शिव किल तां गर्भिणीमभ्यहासीः ।
शत्रुघ्नेनार्दयित्वा लवणनिशिचरं प्रार्दयः शूद्रपाशं
 तावद् वाल्मीकिगेहे कृतवसतिरुपासूत सीता सुतौ ते ॥ ८ ॥

 प्रीत इति । अर्दयित्वा घातयित्वा स्वयमेव शूद्रपाशं कुत्सितं शूद्रमुनिं प्रार्दयः ॥ ८ ॥

वाल्मीकेस्त्वत्सुतोद्गापितमधुरकृतेराज्ञया यज्ञबाटे
 सीतां त्वय्याप्तुकामे क्षितिमविशदसौ त्वं च कालार्थितोऽभूः ।
हेतोः सौमित्रिघाती स्वयमथ सरयूमग्ननिश्शेषभृत्यैः
 साकं नाकं प्रयातो निजपदमगमो देव! वैकुण्ठमाद्यम् ॥ ९ ॥

 वाल्मीकेरिति । त्वत्सुताभ्यां कुशलवाभ्यामुद्गापिता मधुरा कृती रामायणं काव्यं येन स तथा । कालार्थितो यमधर्मराजेन स्वर्गारोहणाय याचितोऽभूः । हेतोः सौमित्रिघातीति । अयमर्थः - रहस्संवादिनोरावयोर्द्रष्टारं त्य(क्ष्ये?क्ष्यामि) इति धर्मराजस्य पुरतः कृतप्रतिज्ञो रामस्तदन्तरा प्राप्तं सौमित्रिं प्रतिज्ञाभङ्गभयात् तत्याजेति । अथ स्वयं निश्शेषैर्देवांशैः पौरैश्च साकं नाकं स्वर्ग ततश्च निजपदं वैकुण्ठम् । आद्यं ब्रह्माण्डोत्पत्तेः प्रागपि विद्यमानम् ॥ ९ ॥


 * युध्यन्नित्यनुदात्तेत्त्वलक्षणस्यात्मनेपदस्यानित्यत्वात् ।