पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१६३

एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् – ३६]
१४७
दत्तात्रेयावतारवर्णनम् ।

 नन्वीश्वरस्यापि यदि शरीरबन्धस्तर्हि संसारित्यप्रसङ्ग इति चद् नेत्याह-

सोऽयं मर्त्यावतारस्तव खलु नियतं मर्त्यशिक्षार्थमेवं
 विक्ष्लेषार्तिर्निरागस्त्यजनमपि भवेत् कामधर्मातिसक्त्या ।
नो चेत् स्वात्मानुभूतेः क्कनु तव मनसो विक्रिया चक्रपाणे !
 स त्वं सत्त्वैकमूर्ते! पवनपुरपते ! व्याधुनु व्याधितापान ॥ १० ॥

 स इति । तव स्वाधीनमायस्य सः ब्रह्मादिभिरप्यविज्ञातविभवः अयं प्रदर्शितो मर्त्यावतारः खलु लीलाविग्रहपरिग्रह एव, नेतरवन्मायापरतन्त्रतया संसार इति भावः । तदपि मर्त्याशेक्षार्थम् । किन्तर्ह्यनेन शिक्षितं भवति, तत्राहएवमिति । कामातिसक्त्या विक्ष्लेषार्तिः प्रियाविरहदुःखं धर्मातिसक्त्या निरागस्त्यजनमपि भवति, यथा सीतायाः । अतः कामादावतिसक्तिर्मा भूदिति । तदुपपादयति – नो चेदिति । स्वात्मा स्वस्वरूपमेवानुभूतिः प्रकाशो यस्य तस्य स्वप्रकाशसंविद्रूपस्य परब्रह्मणस्तव मनसो विक्रिया रागद्वेषमोहादयः क्वनु, न भवत्येवेत्यर्थः । कालात्मकं चक्रं पाणौ स्वाधीनतया स्थितं यस्य तस्य तत्र संसारापादने कालो न प्रभुः। किन्तु सत्त्वैकमूर्त्ते! इति । भक्तानुग्रहाय शुद्धसत्त्वमयमूर्त्यङ्गीकार एवायमवतार इति भावः । व्याधुनु अपाकुरु ॥ १० ॥

इति श्रीरामचरितवर्णनं पञ्चत्रिंशं दशकम् ।


 अथ दत्तात्रेयावतारमाह -

अत्रेः पुत्रतया पुरा त्वमनसूयायां हि दत्ताभिधो
 जातः शिष्यनिबन्धतन्द्रितमनाः स्वस्थश्वरन् कान्तया ।
दृष्टो भक्ततमेन हेहयमहीपालेन तस्मै वरा-
 नष्टैश्वर्यमुखान् प्रदाय ददिथ स्वेनैव चान्ते वधम् ॥ १ ॥

 अत्रेरिति । दत्तो मयाहमिति भगवतोक्तत्वाद् दत्त इत्यभिधा यस्य स त्वं समाधिनैरन्तर्यविघातकतया शिष्यनिबन्धतन्द्रितमनास्तन्निराकरणाय कान्तया सह मधुमदविवशभावं प्रदर्श्य स्वस्थ आत्मारामश्चरन् हेहयमहीपालेन श्रीकार्तवीर्यार्जुनेन ॥ १ ॥