चक्रे त्वय्यथ वैष्णवेऽपि विफले बुद्ध्वा हरिं त्वां मुदा |
लीलेति । लीलया बाहुसहस्रेण वारिते नर्मदाजले वलतः प्लवमानस्य लङ्केशस्य गर्वमपहन्तीति तथा, येन कारागृहं प्रापितो रावणस्तेन श्रीमद्वाहुसहस्रेण मुक्तानि बहूनि शस्त्राणि अस्त्राणि च येन तममुं कार्तवीर्य निरुन्धन् निवारयन् अथ त्वयि तत्प्रयुक्ते वैष्णवे चक्रेऽपि विफले जाते त्वां हरिं बुद्ध्वा श्रीहरिं ध्यायन्तमत एव छितसर्वदोषं नष्टकामक्रोधादिदोषं वृक्णबाहुसहस्रं कृत्वावधीर्निहतवान् ॥ ८ ॥
भूयोऽमर्षितहेहयात्मजगणैस्ताते हते रेणुका- |
भूय इति । अमर्षितैर्निजपितृवधमसहमानैर्नष्टशिष्ठैर्हेहयात्मजगणैस्त्वद्विहीनमाश्रमं प्राप्तैस्तव ताते जमदग्नौ हते हृदयमानानां सोरस्ताडनं विलपन्तीम् । पूर्ववद् ध्यानानीतरथायुधो दिक्चक्त्रेषु ये विप्रद्रुहः क्षत्रियास्तान् कुठारयन् कुठारेण निघ्नन् विशिखयन् विशिखैर्निघ्नन् ॥ ९ ॥
तातोज्जीवनकृन्नृपालककुलं त्रिःसप्तकृत्वो जयन् |
तातेति । पितुः शिरः कायेन सन्धाय मखैः पितरं जीवयन् काश्यपादिष्वृत्विक्षु दिशन् ददत् पुनः साल्वेन युध्यन् कुमारैः सनकादिभिस्तद्वाक्येन श्रीकृष्णोऽमुं निहनिष्यतीति ज्ञात्वा भवान् युद्धाच्छमितोऽभूत् ॥ १० ॥
‘प्रातिपदिकाद् धात्वर्थे बहुलमिष्ठवच्च' इति णिच् । एवं विशिखयन्निति ।