कृष्णलीला निरोधाख्या भूभारहरणात्मिका । |
सान्द्रानन्देति । आदौ मङ्गलार्थमुपात्तमन्तेऽपि 'परमानन्दसन्दोहलक्ष्मीम' इति प्रयोक्ष्यन् मध्येऽपि मङ्गलार्थ परब्रह्मवाचकमानन्दपदं प्रयुङ्क्ते –सान्द्रानन्देति । हे परमानन्दस्वरूप ! दैवासुरे देवासुरसम्बन्धिनि । त्वत्कृत्ता अपीति । त्वया निगृहीतानां सद्य एव मुक्तिः द्वित्रैर्जन्मभिर्वा स्यादेव । तत्र ये ते प्रसिद्धाः कालनेम्यादयो दैत्याः, ते कर्मशेषवशतो मनुष्यत्वापादकपुण्यपापशेषपरतन्त्रतया भगवता निगृहीता अपि गतिं मोक्षं न याताः न प्राप्ताः । अत एव कंसादिरूपेण भूतले जन्म येषां तेषां भारेण भरेण दूरार्दिता अतिशयेन पीडिता पुरा भुवः प्राप्तेः पूर्वमेवागतैः प्राप्तैर्देवैः सह भूमिर्विरिञ्चं प्राप | आश्रितपदं सत्यलोकस्थम्, अथवोपासितभगवत्पादपद्मं, यद्वा देवैराश्रितं पादपद्मं यस्य स तथेति ॥ १ ॥
हा हा दुर्जनभूरिभारमथितां पाथोनिधौ पातुका- |
हा हेति । हा हा कष्टं दुर्जना एव भूरिभारस्तेन मथितां परि [१]क्लिष्टाम् । पाथोनिधावावरणोदके पातुकां मग्नप्रायाम् । वदनानि सत्यमेवास्या वच इति वचनगर्भाणि मुखानि परितो विलोक्य ॥ २ ॥
ऊचे चाम्बुजभूरमनयि सुराः सत्यं धरित्र्या वचो |
- ↑ 'पि' क. पाठः.