देवक्या जठरं विवेशिथ विभो ! संस्तूयमानः सुरैः |
प्राप्त इति । देवक्याः सप्तमगर्भतां प्राप्तेऽहिपतावनन्ते मायया रोहिणीं नीते । सच्चिदिति सच्चिदानन्दैकरसः । हे कृष्ण ! सः देवकीजठरस्थः ॥ १० ॥
इति कृष्णावतारप्रसङ्गवर्णनं सप्तत्रिंशं दशकम् ।
आनन्दरूप! भगवन्नयि! तेऽवतारे |
आनन्देति । प्रदीप्तात् प्रकाशोज्ज्वलाद् भवदङ्गान्निरीयमाणैर्बहिर्निर्गच्छद्भिः ॥ १ ॥
आशासु शीतलतरासु पयोदतोयें- |
आशास्विति । आशासितस्याभीष्टार्थस्याप्त्या लाभेन विवशेषु प्रीतिवेंगेनाविदितेतिकर्तव्यताकेषु । मध्यमायां निशि अर्धरात्रे ॥ २ ॥
वाल्यस्पृशापि वपुषा दधुषा विभूती- |
बाल्येति । बाल्यं स्पृशति तेन सम्बध्यत इति बाल्यस्पृक् । विभूतीरीश्व-
● 'ईङ् गतौ' दिवादिः ।