पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१७२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५६
[स्कन्धः - २०
नारायणीये

रत्वद्योतकानि दधुषा धृतवता । तदेवाह – उद्यदिति । उद्यन्त्यः किरीटादीनां भासो यस्मिन्निति वपुर्विशेषणम् । परिलेसिथ शुशुभिषे ॥ ३ ॥

वक्षःस्थलीसुखनिलीनविलासिलक्ष्मी-
 मन्दाक्षलक्षितकटाक्षविमोक्षभेदैः ।
तन्मन्दिरस्य खलकंसकृतामलक्ष्मी-
 मुन्मार्जयन्निव विरेजिथ वासुदेव ! ॥ ४ ॥

 वक्षःस्थलीति[]वक्षःस्थलीसुखनिलीनाया निजकमितुर्मूर्त्यन्तरपरिग्रहेण विलासिन्या नवीकृतप्रेमप्रकर्षद्योतकचेष्टाविशेषयुक्ताया लक्ष्म्या मन्दाक्षेण लाक्षतैरुपलक्षितैर्लज्जामन्थैररित्यर्थः ॥ ४ ॥

शौरिस्तु धीरमुनिमण्डलचेतसोऽपि
 दूरस्थितं वपुरुदीक्ष्य निजेक्षणाभ्याम् ।
आनन्दबाष्पपुलकोद्गमगद्गदार्द्र -
 स्तुष्टाव दृष्टिमकरन्दरसं भवन्तम् ॥ ५ ॥

 शौरिरिति । धीरस्य साधनचतुष्टयसम्पन्नस्य मुनिमण्डलस्य चेतसः समाधेः सकाशादपि दूरे स्थितम् आनन्दबाप्पेण पुलकोद्गमेन गद्गदे[][] चार्द्रो मिलितः सन्॥

देव! प्रसीद परपूरुष ! तापवल्ली-
 निर्लूनिदात्र ! समनेत्र ! कलाविलासिन्! ।
खेदानपाकुरु कृपागुरुभिः कटाक्षै-
 रित्यादि तेन मुदितेन चिरं नुतोऽभूः ॥ ६ ॥

 देवेति । परपूरुष ! परमात्मन् ! तापवल्ल्या निलूर्नौ मूलच्छेदे दात्र ! अतितीक्ष्णशस्त्रभूत ! समनेत्र ! सर्वनियन्तः ! कलया स्वांशभूतया मायया जगत्सृष्ट्यादिक्रीडाशील !, अथवा तापवल्ल्या निर्लनौ दात्रसमो नेत्रकलायाः कटाक्षस्य विलासोऽस्यास्तीति तथेति ॥ ६ ॥


  1. 'ति । निज' क ख. पाठः.
  2. 'दवाक्येन' ग. पाठः.
  3. न वाक्येन चा' ख. पाठः.