मात्रा च नेत्रसलिलास्तुतगात्रवल्लया |
मात्रेति । प्राचीनजन्मयुगलं प्राग् युवयोः पृश्निसुतपसोः पुत्रतया पृश्निगर्भाख्ययाहं जातः, पुनश्चादितिकाश्यपयोर्वामनाख्यथेति प्रतिबोध्य ॥ ७ ॥
त्वत्प्रेरिस्ततदनु नन्दतनूजया ते |
त्वादिति । कंसभ्रान्त्यर्थं मां यशोदाशयने न्यस्य तत्सुतां मन्मातुः शयने कुर्विति त्वया प्रेरितः सः आर्यैर्मुनिभिश्चित्तेन विधार्यं ध्येयम् ॥ ८ ॥
जाता तदा पशुपसद्मनि योगनिद्रा |
जातेति । तदा त्वत्प्रस्थानारम्भे सति योगनिद्रा माया भगवती पशुपस्य नन्दगोपस्य सद्मनि यशोदायां जातावतीर्णा सा त्वत्प्रेरणात् पौरलोकं मथुरापुरवासिनं जनं निद्राविमुद्रितं निश्चेष्टमकृत । किमिव चित्रमिति । अघटमानघटनापटीयस्यास्त्वत्प्रेरणाद् द्वारविघटनकरणादि न चित्रमित्यर्थः ॥ ९ ॥
शेषेण भूरिफणवारितवारिणाथ |
- ↑ 'सर्वलो' क. पाठः