द्गणैः पणायिता स्तुता जग्मुषी गतवती भुवि मन्दिराण्येयुषी नृणामनुग्रहाय तत्तत्स्थानाभिमानितया स्थितवती ॥ ६ ॥
प्रगे पुनरगात्मजावचनमीरिता भूभुजा |
प्रग इति । पुनः परेछुः प्रगेऽहर्मुखे भूभुजा कंसेन प्रलम्बाद्या अगात्मजाया देव्या वचनमीरिता उक्ताः ॥ ७ ॥
ततः पशुपमन्दिरे त्वयि मुकुन्द ! नन्दप्रिया- |
तत इति । ततः पशुपमन्दिरे नन्दगेहे प्रसूतिशयने शेत इति प्रसूतिशयनेशयस्तस्मिन् किञ्चिदञ्चत्पदे चलिताल्पकमृदुलाङ्घ्रिपल्लवे त्वयि रुवति रुदति सति ॥ ८ ॥
अहो खलु यशोदया नवकलायचेतोहरं |
अहो इति। यशोदया भवदर्शनस्पर्शनस्तनदानादिना पुण्यवन्तो मुनयोऽपि जिता अधःकृताः खलु अहो ॥ ९ ॥
भवत्कुशलकाम्यया स खलु नन्दगोपस्तदा |