स्तस्मात् तच्छरीरादिति, तत्स्तनाधिष्ठानतया भगवतस्तदङ्कारोहणाञ्च शुद्धसत्त्वमयतामापन्नात् पूतनाशवशरीरादित्यर्थः । अत एव सत्त्वकार्यत्वाद् धूमस्यागरवादिशङ्का ॥ ३ ॥
मदङ्गसङ्गस्य फलं न दूरे क्षणेन तावद् भवतामपि स्यात् । |
मदिति । मम ब्रह्ममयस्थाङ्कारोपणलालनादौ योऽङ्गसङ्गस्तस्य फलं मुक्तिर्न दूरे जन्मान्तरे, यथा मां हन्तुमिच्छन्त्या अस्याः पिशाच्याः । भवतां मद्योगक्षेमैकचित्तानां क्षणेन । वल्लवतल्लजेभ्यो भाग्यवत्तया प्रशस्तेभ्यो गोपा[१]लकेभ्यः इत्युल्लपन्[२] इति सम्यग् बोधनार्थमेव त्वं पूतनां सुगन्धिमातनुथाः ॥ ४ ॥
चित्रं पिशाच्या न हतः कुमारश्चित्रं पुरैवाकथि शौरिणेदम् । |
चित्रमिति । पुरैव 'इह च सन्त्यनिमित्तशतानी' त्यादिनेदं भयं शौरिणा वसुदेवेनाकथि कथितमिति शौरिं प्रशंसन् भवन्मुखालोके रस आनन्दस्तस्मिन् न्यमाङ्क्षीद् निमग्नोऽभूत् ॥ ५ ॥
दिने दिनेऽथ प्रतिवृद्धलक्ष्मीरक्षीणमङ्गल्यशतो व्रजोऽयम् । |
दिने दिन इति । व्रजो व्रजजनः परितः प्रमोदसान्द्र इति स्थिरचराणामप्यानन्दातिशय उक्तः ॥ ६ ॥
गृहेषु ते कोमलरूपहासमिथःकथासङ्कुलिताः कमन्यः । |
गृहेष्विति । कोमलयो रूपहासयोर्मिथःकथया सङ्कुलिताः सव्यापाराः । वृत्तेष्ववसितेषु ॥ ७ ॥