पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६८
[स्कन्धः - १०
नारायणीये


कथम् अमुष्य शकटासुरस्य रजोऽपि रजोमात्रतयापि शरीरं नो दृष्टमित्याशङ्कय आ ज्ञातमित्याह – स इति । स दैत्यः सशरीर एव त्वयि निलनिवान् ध्रुवं निश्चिनोमि । रजोऽपि नो दृष्टमतस्तमसः का कथा । रजस्तमोविलये च त्वयि लीनवान् इत्युक्तिर्युक्तिमतीत्यर्थः ॥ १० ॥

प्रपूजितैस्तत्र ततो द्विजातिभिर्विशेषतो लम्भितमङ्गलाशिषः ।
व्रजं निजैर्वाल्यरसैर्विमोहयन् मरुत्पुराधीश ! रुजां जहीहि मे ॥ ११ ॥

 प्रपूजितैरिति । भविष्यदपायशङ्कया विशेषतो लम्भिताः प्रापिता मङ्गलरूपा आशिषोऽनुग्रहा यस्य स त्वं मे रुजां रोगं जहीहि त्यज ॥ ११ ॥

इति शकटासुरवधवर्णनं द्विचत्वारिंशं दशकं सैकम् ।


त्वामेकदा गुरुमरुत्पुरनाथ! वोढुं
 गाढाधिरूढगरिमाणमपारयन्ती ।
माता निधाय शयने किमिदं बतेति
 ध्यायन्त्यचेष्टत गृहेषु निविष्टशङ्का ॥ १ ॥

 त्वामिति । त्वां गाढाधिरूढगरिमाणमतिशयेन प्राप्तगुरुत्वं वोढुम् अङ्केनोद्धर्तुमपारयन्त्यशक्नुवती माता यशोदा शयने निधाय किमिदं बतेति निविष्टा शङ्का यस्यां सा त्वां ध्यायन्ती गृहेष्वचेष्टत ॥ १ ॥

तावद् विदूरमुपकर्णितघोरघोष-
 व्याजृम्भिपांसुपटलीपरिपूरिताशः ।
वात्यावपुः स किल दैत्यवरस्तृणाव-
 र्ताख्यो जहार जनमानसहारिणं त्वाम् ॥ २ ॥


 $ ‘अच्’ (५-४-७५) इति योगविभागाद् अच्प्रत्ययः समासान्तः पद्मनाभवत । आशिषशब्द एव वा स्वार्थाणन्तः समासे घटितः प्रज्ञादेराकृतिगणत्वात् ।