पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१९३

एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् -- ४६ ]
१७७
विश्वरूपप्रदर्शनवर्णनम् ।


 तवेति । दधिघृतयोर्मोपे मोषणे घोषयोपाजनानां गोपस्त्रीणां मोषके त्वयि रोषो द्रव्यनाशे शोकश्चावकाशमास्पदं नाभजत | कस्मादित्यत्राह - हृदयमिति [] । मुषित्वापहृत्य । नन्वपहृतं हृदयं यत्र तत्र रोषशोकौ प्राप्नुयातामेव । तत्राह--- हर्षसिन्धाविति । यथा जलस्थे काष्ठे ज्वलनप्रवेशोऽशक्यः, तद्वद्धर्षसिन्धुस्थे हृदये तद्विरुद्धयो रोषशोकयोरप्यनवकाश इति भावः ॥ १० ॥

  • शाखाग्रेऽथ विधुं विलोक्य फलमित्यम्बां च तातं मुहुः

 सम्प्रार्थ्याथ तदा तदीयवचसा प्रोत्क्षिप्तवाहौ त्वयि ।
चित्रं देव! शशी स ते करमगात् किं ब्रूमहे सम्पत-
 ज्ज्योतिर्मण्डलपूरिताखिलवपुः प्रागा विराड्रूपताम् ॥ ११ ॥

किं किं बतेदमिति संभ्रमभाजमेनं
 ब्रह्मार्णवे क्षणममुं परिमज्ज्य तातम् ।
मायां पुनस्तनयमोहमयीं वितन्व-
 न्नानन्दचिन्मय! जगन्मय! पाहि रोगात् ॥ १२ ॥

 इति कृष्णस्य वालक्रीडावर्णनं पञ्चचत्वारिंशं दशकं सद्विकम् ।

अयि देव! पुरा किल त्वयि स्वयमुत्तानशये स्तनन्धये ।
परिजृम्भणतो व्यपावृते वदने विश्वमचष्ट वल्लवी ॥ १ ॥

 अयीति । अयि देव! क्रीडापर ! पुरातिशैशवे स्वयं साक्षादीश्वरे त्वयि उत्तानशय ऊर्ध्वमुखशायिनि । स्तनं धयति पिबतीति स्तनन्धयः । परिजृम्भणतो मुखविजृम्भणदशायां व्यपावृते विदारिते वदने आस्ये विश्वमचष्ट दृष्टवती । वल्लवी यशोदा ॥ १ ॥

पुनरप्यथ बालकैः समं त्वयि लीलानिरते जगत्पते! ।
फलसञ्चयवञ्चनक्रुधा तव मृद्भोजनमूचुरर्भकाः ॥ २ ॥


  • पद्यद्वयमिदं क. पुस्तके परं दृश्यते । तत्रापि न व्याख्या दृश्यते ।

  1. ‘ति । न केवलं दधिघृतमोषणमेव कृतवान् तासां हृदयमपि मुषित्वा तच हर्षसिन्धौ न्यधाः ॥' ग. पाठः.