पुनरिति । पुनरपि किञ्चिद्वयोतिक्रमणे सति त्वयि बालकैः समं सह ॥ २ ॥
अयि ते प्रलयावधौ विभो ! क्षितितोयादिसमस्तभक्षिणः । |
अयीति । प्रलय एवावधिः प्रलयावधिः । प्रत्यहमिव प्रतिप्रलयं क्षित्यादिसमस्तं प्रपञ्चं भक्षयितुं शीलमस्येति तथा तस्य ते मृदुपाशनतः क्षितिलवमात्रभक्षणेन रुजा रोगो भवेत् ॥ ३ ॥
अयि दुर्विनयात्मक ! त्वया किमु मृत्सा वत वत्स ! भक्षिता । |
अयीति । वितथामयर्थां प्रतिजज्ञिषे प्रतिज्ञातवानसि ॥ ४ ॥
[१]अयि ते सकलैर्विनिश्चिते विमतिश्चेद् वदनं विदार्यताम् । इति मातृविभत्सिंतो मुखं विकसत्पद्मनिभं व्यदारयः ॥ ५ ॥
अयीति । सकलैस्त्वत्सखिभिस्तवाग्रजेन च विनिश्चिते मृद्धोजने तवैकस्य विमतिर्विवादोऽस्ति चेत् सन्देहहानाय वदनमास्यं विदार्यतामिति मात्रा विभर्सितोऽधिक्षिप्तः विकसत्पद्मनिभं यथा भवति तथा व्यदारयः ॥ ५ ॥
अयि मृल्लवदर्शनोत्सुकां जननीं तां बहु तर्पयन्निव । |
अयीति । बहु अतिशयेन तर्पयन् प्रीणयन् अदीदृशः प्रदर्शयामासिथ ॥
कुहचिद् वनमम्बुधिः क्कचित् क्कचिदभ्रं कुहचिद् रसातलम् । |
कुहचिदिति । त[२]वान्तर्भागे कुहचित् कुत्रचित् ॥ ७ ॥
कलशाम्बुधिशायिनं पुनः परवैकुण्ठपदाधिवासिनम् । |