पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१९८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८२
[स्कन्धः - १०
नारायणीये


मुदा मुरौस्त्वमुदारसम्मदैरुदीर्य दामोदर इत्यभिष्टुतः ।
मृदूदरः स्वैरमुलूखले लगन्नदूरतो द्वौ ककुभावुदैक्षथाः ॥ १ ॥

 मुदेति । प्रागेवोदारसम्मदैः प्रवृद्धसन्तोषैः सुरौघैर्दाभ्रोदरे बद्धत्वाद्धेतोर्दामोदर इत्युदीर्य सम्बोध्य मुदाभिष्टुतः मृदु बन्धनायोग्यमुदरं यस्य स त्वं स्वैरं यथासुखं लगन् लग्नः सन् ककुमौ वृक्षावुदैक्षथाः दृष्टवानसि ॥ १ ॥

कुबेरसूनुर्नलकुवराभिधः परो मणिग्रीव इति प्रथां गतः ।
महेशसेवाधिगतश्रियोन्मदौ चिरं किल त्वद्विमुखावखेलताम् ॥ २ ॥

 कुबेरेति । परोऽन्यः सुतो मणिग्रीव इति प्रथां प्रसिद्धिं गतः । महेशस्य शिवस्य सेवयाधिगतया प्राप्तया श्रियोन्मदौ प्रवृद्धमदौ त्वद्विमुखौ विष्णुविमुखावखेलतां चेरतुः किल ॥ २ ॥

सुरापगायां किल तौ मदोत्कटौ सुरापगायद्वहुयौवतावृतौ ।
विवाससौ केलिपरौ स नारदो भवत्पदैकप्रवणो निरैक्षत ॥ ३ ॥

 सुरेति । सुरापगायां गङ्गायां सुरापेन गायता बहुना यौवतेन युवतिसमूहेनावृतौ परिवारितौ भवत्पद एकस्मिन् प्रवणो दत्तहृदयो निरैक्षत दृष्टवान् ॥ ३ ॥

भिया प्रियालोकमुपात्तवाससं पुरो निरीक्ष्यापि मदान्धचेतसौ ।
इमौ भवद्भक्त्युपशान्तिसिद्धये मुनिर्जगौ शान्तिमृते कुतः सुखम् ॥ ४ ॥

 भियेति । भिया शापभयेनोपात्तवाससं धृतस्वस्ववसनं प्रियालोकं निजस्त्रीसमूहम् । भवद्भक्तिर्विष्णुभक्तिः, उपशान्तिरीदृशकर्मणो मनसो निग्रहणं, तयोः सिद्धये मुनिर्नारदः जगौ शप्तवान् । ननु शान्त्या किं फलं तत्राह - शान्तिंमिति । ऋते विना सुखं मोक्षः ॥ ४ ॥

युवामवाप्तौ त्ककुभात्मतां चिरं हरिं निरीक्ष्याथ पदं स्वमाप्नुतम् ।
इतीरितौ तौ भवदीक्षणस्पृहां गतौ व्रजान्ते ककुभौ बभूवतुः ॥ ५ ॥

 युवामिति । ककुभात्मत्तामर्जुनतरुयुग्मरूपताम् । अथ हरिं श्रीकृष्णं निरीक्ष्य स्वं पदं कुबेरान्तिकमाप्नुतं प्राप्नुतम् ॥ ५॥