प्रसङ्ग इति चेद्, न, विद्याविद्ययोर्भेदादुभयोपपत्तेः । तथाहि विद्या नाम विक्षेपशक्तिप्रधानेश्वरोपाधिः, ययेश्वरः सृष्ट्यादि करोति । अविद्या नामावरणशक्तिप्रधाना
जीवोपाधिः, ययेश्वरः सन्नपि जीवस्तत्कृतोपाधिभेदेन संसारी भवति । अतो जीवेश्वरयोरेकत्वेऽप्यविद्यया संसारो विद्यया[१] च तदभावो नानुपपन्नः | अनादित्वान्निर्गुणत्वाञ्चेश्वरस्य जरामरणादिसांसारिकधर्माश्च न भवन्ति, यथा स्वप्नादुत्थितस्य
स्वामाः कर्तृत्वभोक्तृत्वादय इत्यलमतिप्रसङ्गेन । ननु कर्तृत्वभोक्तृत्वादिरात्मनः
स्वाभाविको धर्म हात न कदाचिदपि तेन वियोगः स्यादित्याशङ्कयाह ----
कालदेशावधिभ्यां निमुक्तमिति । कालतो योऽवधिर्देशतश्च, ताभ्यां निर्मुक्तं[२] विरहितमित्यर्थः । ततश्च व्योमवदमूर्तस्य कूटस्थस्य ब्रह्मणः क्रियादिसंयोगानुपपत्तेर्न कर्तृत्वभोक्तृत्त्रे इत्यर्थः। नित्यत्वं च ब्रह्मणः कार्यप्रपञ्चस्योत्पत्तेः प्राक् पश्चादपि विद्यमानत्वम् । विभुत्वं च यथा मृत्सुवर्णादेर्घटकुण्डलादिषूपादानकारणत्वेनानुगमः,
तद्वत् सर्वोपादानस्य ब्रह्मणोऽपि सर्वत्र शरीरादौ कारणत्वेनानुस्यूतत्वात् सर्वव्याप्तत्वम् । अतोऽनेन जगत्कारणं ब्रह्मे[३]ति अयावल्लक्ष्यभावि तटस्थलक्षणमप्यर्थादुक्तं
वेदितव्यम् । एवं लक्षणद्वयसिद्धस्य वस्तुनः प्रमाणापेक्षायामाह - निगमेति ।
निगमा उपनिषदः, [४]तासां शतसहस्रमिति बहुत्वाभिप्रायम् । बहुभिरुपनिषद्वाक्यैरित्यर्थः । अस्पष्टं यथा भवति तथा निर्भास्यमानमिति, उपक्रमोपसंहारादिभिर्लि[५]ङ्गैस्तात्पर्येण लक्षणया प्रतिपाद्यमानमित्यर्थः । यद्वा दृष्टमात्रेऽस्पष्टमिति सम्बन्धः।
वाक्यार्थज्ञाने सत्यपि विपरीतान्यथाभावनादि दिब्योह[६]वत् सहसा न निवर्तते ।
अतः श्रवणमननादिना तन्निवृत्तावेव ब्रह्मज्ञानमनुभवपर्यवसाय्यवतिष्ठत इति
भावः । नन्वेवंभूतब्रह्मदर्शने[७] सति किं फलं, तत्राह - पुनरुरुपुरुषार्थात्मकमिति ।
पुनः ब्रह्मज्ञानानन्तरमित्यर्थः । उरुः पुरुषार्थो मोक्षः । तस्य चोरुत्वं दुःखानुषङ्गाभावात् कालदेशानवच्छेदाच्च परिपूर्णत्वम्, इतरपुरुषार्थानां कर्मजन्यतया तदभा[८]वात् । पुरुषार्थात्मकमिति । ब्रह्मज्ञानसमनन्तरमेव ब्रह्म पुरुषार्थरूपेणावतिष्ठत
इत्यर्थः । एवं ब्रह्मभूतस्य न पुनरावृत्तिरित्यभिप्रायेण ब्रह्म विशिनष्टि – नित्यमुक्तमिति । नित्यमेव मुक्तं मायातत्कार्योपरागरहितम् । परमार्थतोऽद्वितीयस्यावि-
पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२०
एतत् पृष्ठम् परिष्कृतम् अस्ति
४
[स्कन्ध:- १.
नारायणीये