पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२०२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८६
[स्कन्धः - १०
नारायणीये


रत्नानां मयूखमालाभिः प्रभापटलै: शबलं विचित्रवर्णमुच्चैरुन्नतैः शृङ्गैः विरिञ्चलोकं सत्यलोकं स्पृशतीति तथा ॥ ८ ॥

समं ततो गोपकुमारकैस्त्वं समन्ततो यत्र वनान्तमागाः ।
ततस्ततस्तां कुटिलामपश्यः कलिन्दजां रागवतीमिवैकाम् ॥ ९ ॥

 सममिति । ततो गोपकुमारकैः समं सह वनान्तं समन्ततः सर्वत्र यत्र यत्रागाः गतवानसि ततस्ततः तत्र तत्र कलिन्दजामेकामपश्यः । तत् कथं, कुटिलां वक्रमार्गेण तत्र तत्रागतामतस्त्वदनुसरणात् त्वयि रागवतीमिव ॥ ९ ॥

तथाविधेऽस्मिन् विपिने पशव्ये समुत्सुको वत्सगणप्रचारे ।
चरन् सरामोऽथ कुमारकैस्त्वं समीरगेहाधिप! पाहि रोगात् ॥ १० ॥

 तथेति । पशव्ये पशुभ्यो हिते ॥ १० ॥

इति वृन्दावनगमनवर्णनम् ऊनपञ्चाशं दशकम् ।



तरलमधुकृद्वून्दे बृन्दावनेऽथ मनोहरे
 पशुपशिशुभिः साकं वत्सानुपालनलोलुपः ।
हलधरसखो देव! श्रीमन् ! विचेरिथ धारयन्
 गवलमुरलीवेत्रं नेत्राभिरामतनुद्युतिः ॥ १ ॥

 तरलेति । तरलमधुकृवृन्दे चलितभृङ्गसमूहे । गवलं शृङ्गं मुरलीं वेणुं वेत्रं याष्टं च धारयन् विचेरिथ सञ्चरणं कृतवान् ॥ १ ॥

विहितजगतीरक्षं लक्ष्मीकराम्बुजलालितं
 ददति चरणद्वन्द्वं बृन्दावने त्वयि पावने ।
किमिव न बभौ सम्पत्सम्पूरितं तरुवल्लरी-
 सलिलधरणीगोत्रक्षेत्रादिकं कमलापते! ॥ २ ॥

 विहितेति । विहिता जगत्या भूम्या रक्षा येन । लक्ष्म्याः कराम्बुजाभ्यां