प्रमादतः प्रविशति पन्नगोदरं |
प्रमादत इति । क्कथत्तनौ दह्यमानशरीरे सवात्सके तत्ससमूहसहिते । त्वमपीदमघासुरचेष्टितं विदन् जानन् ॥ ५ ॥
गलोदरे विपुलितवर्ष्मणा त्वया |
गलोदर इति । विपुलितवर्ष्मणा वर्धितशरीरेण त्वया निरुद्धो मारुतः प्राणवायुर्यस्य । अत एव प्राणनिरोधाल्लुठति इतस्ततो वेष्टमाने सति विदलितं विदारितं कण्ठमण्डलं येन स भवांस्तेन प्राणनिर्गममार्गेण पशुपान् पशूंश्च विमोचयन् बहिर्निर्गमयन् स्वयमपि विनिर्ययौ ॥ ६ ॥
क्षणं दिवि त्वदुपगमार्थमास्थितं |
क्षणमिति । त्वदुपगमार्थं त्वान्नर्गमनार्थं त्वयि प्रवेष्टुं वा क्षणं दिव्याकाश आस्थितं महासुरप्रभवमघासुरशरीरान्निर्गतं महद् विपुलं महः सूक्ष्मशरीरस्यापि त्यागेन परिच्छेदकाभावादत्युज्ज्वलं तेजःपुजं त्वाये ज्योतिषि ज्योतिरिव निलीनम् | अहो द्विषन्नप्यघासुरो भवन्तमन्तःकृत्वा मृतोऽतस्तत्क्षणं तत्फलं सायुज्याख्यं मोक्षं सर्वलोकसमक्षं प्राप्तवान् । अहो भक्तवात्सल्यं भवत इति भावः ॥ ७ ॥