सविस्मयैः कमलभवादिभिः सुरै- |
सविस्मयैरिति । अनुद्भुतो व्योममार्गेणानुगतः दिने तरुणदशामुपेयुषि मध्याह्ने प्राप्ते सति भोजनोत्सवं बनाशनकौतुकम् ॥ ८ ॥
विषाणिकामपि मुरलीं नितम्बके |
विषाणिकामिति । विषाणिकां शृङ्ग, मुरली वेणुं, : नितम्बके कटिप्रदेशे पीतपटान्तरे ॥ ९ ॥
सुखाशनं त्विह तव गोपमण्डले |
सुखाशनमिति । गोपमण्डले सुखाशनं देवमण्डले मखाशनाद् यज्ञभागभोजनात् प्रियमिव त्रिदशवरैर्ब्रह्मादिभिरिति स्तुतः ॥ १० ॥
इत्यधासुरवधवर्णनम् एकपञ्चाशं दशकम् ।
अन्यावतारनिकरेष्वनिरीक्षितं ते |