त्वामेव शिक्यगवलादिमयं दधानो |
त्वामिति । भूयः पुनः पशुवत्सकबालरूपस्त्वं शिक्यगवलादिमयं त्वामेव दधानः । गोरूपिणीभिरिति । गोरूपिणीभिर्जननीभिः पशुवत्सरूपस्त्वमतिप्रहर्षादतिशयॆन वात्सल्यादास दितः स्वं स्वं वत्स मत्वा गावस्त्वां सहुङ्कारमौधसं पयोऽपाययन् । तथा गोपवधूमयीभिर्जननीभिर्गोपबालकरूपस्त्वमासादितोऽसि ता अपि स्वं स्वं सुतं मत्वा त्वामङ्कारोपणाक्ष्लेषस्तनदानादि चक्रुरित्यर्थः ॥ ४ ॥
ननु गोगोपीनां वत्सवत्सपवालेप्वेवमतिप्रहर्षे को हेतुरित्याशङ्कय सर्वोऽप्या[१] त्मानि स्निह्यति । अन्ये हि तदर्थं प्रियाः । [२]आत्मा च विष्णुः कृष्णः । अतस्तद्रूपेषु पुत्रेषु प्रेमधिरभूदिति परिहरन्नाह -
जीवं हि कञ्चिदभिमानवशात् स्वकीयं |
जीवमिति । कञ्चित् स्वप्रारब्धकर्मफलभोगायोद्यतं जीवमात्मत्वेनाभिमतं स्थूलं सूक्ष्मं वा शरीरमभिमानवशान्ममत्वारोपवशेन तनूजो मम पुत्र इति स्वकीयं मत्वा रागभरं वहन्त्यो भवन्ति तन्मातरः । हि यस्मा[३]दित्थंभावेऽप्येतादृशो रागः, विशेषे सति किमुच्यत इत्याह - आत्मानमिति । आत्मानमहम्प्रत्यये नेदमंशरूपं भवन्तं श्रीकृष्णमेव सूनुमवाप्य वनिता गोप्यो गावश्च न कियतीं प्रीतिं ययुः अतिमहतीं प्रीतिमवाप्ता एवेत्यर्थः ॥ ५ ॥