एवं प्रतिक्षणविजृम्भितहर्पभार- |
एवमिति । प्रतिक्षणं विजृम्भितो वर्धितो हर्षभारः सन्तोपातिशयो येषां तेषां निश्शेषाणां गोपानां गणेन लालितभूरिमूर्ति तत्तद्गो[१] गोप्यात्मजरूपं त्वामग्रजः श्रीबलभद्रोऽपि (त्वद्भूरिमूर्तित्वं?) वत्सरान्ते संवत्सरावसाने बुबुधे । ब्रह्मात्मनोर्ब्रमस्वरूपयोरपि युवयोस्त्वं निष्कलं ब्रह्म अग्रजः सकलमिति महान् विशेषः ॥ ६ ॥
वर्षावधौ नवपुरातनवत्सपालान् |
वर्षावधाविति । वर्षावधौ संवत्सरावसाने नवान् श्रीकृष्णमयान् पुरात नान् स्वेन तिरस्कृतान् वत्सान् वत्सपालांश्च दृष्ट्वा द्रुहिणे ब्रह्मणि विमूढे एते सत्या अन्ये मायामया इति सम्यग्ज्ञानरहिते विवेकमसृणे विचारयितुमप्यसमर्थे सति प्रतिनवान् मायामयान् मकुटाङ्गदादिविशिष्टान प्रादीदृशः प्रदर्शयानासिथ ॥ ७ ॥
प्रत्येकमेव कमलापरिलालिताङ्गान् |
प्रत्येकमिति । लीलानिमीलितदृशोऽङ्गीकृतयोगनिद्रान् भवतो विष्णून् ददर्श ॥ ८ ॥
- ↑ 'द्गोपगो'. ख. ग. पाठः.