पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२१५

एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् – ५४]
१९९
कालियमर्दनवर्णनम् ।


त्वद्वाहं तं सक्षुधं तृक्षमनुं मीनं कञ्चिज्जक्षतं लक्षयन् सः ।
तप्तक्ष्चित्ते शप्तवानत्र चेत् त्वं जन्तून् भोक्ता जीवितं चापि मोक्ता ॥२॥

 त्वादति । त्वद्वाहं तव वाहनभूतं तृक्षसूनुं तार्क्ष्यं जक्षतं भक्षयन्तं लक्षयन् पश्यन् चित्ते तप्तः सन्तापवान् अत्र कालिन्दीह्रदे त्वं जन्तून् मत्स्यादीन् भोक्ता भक्षयिष्यसि चेद् जीवितं मोक्ता मरिष्यसि ॥ २ ॥

तस्मिन् काले कालियः क्ष्वेलदर्पात् सर्पारातेः कल्पितं भागमश्नन् ।
तेन क्रोधात् त्वत्पदाम्भोजभाजा पक्षक्षितस्तद्दुरापं पयोऽगात् ॥ ३ ॥

 तस्मिन्निति । क्ष्वेलदर्पाद् विषवीर्यमदात् सर्पैरात्मरक्षणार्थे कल्पितं भागं मासिकं बलिमश्नन् त्वत्पदाम्भोजं भजतीति तथा । अतः पक्षेण सव्येन क्षिप्तो विवशीकृितः तद्दुरापं सर्पारातिदुरापं पयः कालिन्दीह्रदमगात् ॥ ३ ॥

घोरे तस्मिन् सूरजानीरवासे तीरे वृक्षा विक्षताः क्ष्वेलवेगात् ।
पक्षिव्राता: पेतुरभ्रे पतन्तः कारुण्यार्द्रं त्वन्मनस्तेन जातम् ॥ ४ ॥

 घोर इति । घोरे क्रूरकर्माणि तस्मिन् कालिये सूरजानीरवासे कालिन्दीहृदनिवासिनि सति विक्षता विषाग्निज्वालावलीढतया नष्टाः । अभ्र उपरिभागे । तेन, यतो न केवलं तज्जलोपभोगाभाव: प्रत्युत सर्वलोकविनाशश्च, तेनेत्यर्थः ॥ ४ ॥

काले तस्मिन्नेकदा सीरपाणिं मुक्त्वा याते यामुनं काननान्तम् ।
त्वय्युद्दामग्रीष्मभीष्मोष्मतप्ता गोगोपाला व्यापिबन् क्ष्वेलतोयम् ॥५॥

 काल इति । सीरपाणिं मुक्त्वा रामं विना यामुनं यमुनासम्बन्धिनं काननान्तं वनप्रदेशं याते त्वयि । उद्दामेति । प्रवृद्धग्रीष्मकालोत्थेन भीष्मेणोष्मणा तप्ताः क्ष्वेलतोयं विषजलं व्यापिचन् यथासुखं पपुः ॥ ५ ॥

नश्यज्जीवान् विच्युतान् क्ष्मातले तान् विश्वान् पश्यन्नच्युत! त्वं दयार्द्र:।
प्राप्योपान्तं जीवयामासिथ द्राक् पीयूषाम्भोवर्षिभिः श्रीकटाक्षैः ॥ ६ ॥