पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ५५]
२०१
कालियमर्दनवर्णनम् ।

अथ वारिणि घोरतरं फणिनं प्रतिवारयितुं कृतधीर्भगवन् ! ।
द्रुतमारिथ तीरगनीपतरूं विषमारुतशोषितपर्णचयम् ॥ १ ॥

 अथेति । प्रतिवारयितुं कृतधीर्निश्चितबुद्धिर्नीपतरुं कदम्बवृक्षमारिथ प्राप्तवान् ॥ १ ॥

अधिरुह्य पदाम्बुरुहेण च तं नवपल्लवतुल्यमनोज्ञरुचा ।
हृदवारिणि दूरतरं न्यपतः परिघूर्णितघोरतरङ्गगणे ॥ २ ॥

 अधिरुह्येति । नवपल्लवतुल्यमनोज्ञरुचेत्यनेन नीपतरुर्भगवत्स्पर्शात् त्यक्तविषदोषः सञ्जातनवपल्लवश्च जात इत्यधःस्थितानां प्रतीतिर्घोत्यते ॥ २ ॥

भुवनत्रयभारभृतो भवतो गुरुभारविकम्पिविजृम्भिजला ।
परिमज्जयति स्म धनुःशतकं तटिनी झटिति स्फुटघोषवती ॥ ३ ॥

 भुवनेति । भुवनत्रयमेव भारस्तमुदरे बिभर्ती []ति तथा, तादृशस्य भवतो गुरुभारेण विकम्पि कम्पनशीलं विजृम्भि वर्धनशीलं च जलं यस्यां तथाभूता तटिनी नदी झटिति धनुःशतप्रमाणं परिमज्जयति स्म प्लावयामास ॥ ३॥

अथ दिक्षु विदिक्षु परिक्षुभितभ्रमितोदरवारिनिनादभरैः ।
उदकादुदगादुरगाधिपतिस्त्वदुपान्तमशान्तरुषान्धमनाः ॥ ४ ॥

 अथेति । दिक्ष्वष्टसु विदिक्ष्ववान्तरेषु (?) च परिक्षुभितं परिचलितं भ्रमितं सञ्जातावर्तमुदरमन्तर्भागो यस्य तादृशं यद् वारि तस्य निनादभरैर्हेतुभूतैरशान्तरुषान्धं मनो यस्य तादृशः सन् त्वदुपान्तं त्वत्समीपमुदगाद् उन्मज्ज्य प्राप्तवान् ॥ ४ ॥

फणशृङ्गसहस्रविनिःसृमरज्वलदग्निकणोग्रविषाम्बुधरम् ।
पुरतः फणिनं समलोकयथा बहुगृङ्गिणमञ्जनशैलमिव ॥ ५ ॥

 फणेति । फणशृङ्गसहस्राद् विनिःसृमरं क्षरणशीलं ज्वलदग्निकणमत एवोग्रं क्रूरं विषाम्बु विषद्रवं धरत इति तथा ॥ ५ ॥


  1. 'प्रसिद्धिर्यो' ख. पाठः