पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०४
[स्कन्धः- १०
नारायणीये


 फणीति[] जीवितो मरणान्निवर्तितस्त्वयि समर्पितमूर्ति: साष्टाङ्गपातमवानमद् नमश्चकार ॥ ५ ॥

रमणकं व्रज वारिधिमध्यगं फणिरिपुर्न करोति विरोधिताम् ।
इति भवद्वचनान्यतिमानयन् फणिपतिर्निरगादुरगैः समम् ॥ ६॥

 रमणकमिति । रमणकं रमणकाख्यं नागानां निवासभूतं द्वीपम् । फणिरिपुर्गरुडः सापराधेऽपि त्वयि विरोधितां न करोति ॥ ६ ॥

फणिवधूजनदत्तमणिव्रजज्वलितहारढुकूलविभूषितः ।
तटगतैः प्रमदाश्रुविमिश्रितैः समगथाः स्वजनैर्दिवसावधौ ॥ ७ ॥

 फणीति । प्रमदाक्ष्रुविमिश्रितैः प्रमदाभिरभि[] क्ष्च, प्रमदाश्रुभिर्हर्षा श्रुभिर्वा विमिश्रितैः स्वजनैः समगथाः सङ्गतोऽभूः ॥ ७ ॥

निशि पुनस्तमसा व्रजमन्दिरं व्रजितुमक्षम एव जनोत्करे ।
स्वपति तत्र भवच्चरणाश्रये दवकृशानुररुन्ध समन्ततः ॥ ८ ॥

 निशीति । पुनरनन्तरं निशि रात्रौ तमसा व्रजमन्दिरमेव व्रजितुं गन्तुमक्षमे तत्र कालिन्दीतट एव स्वपति सत्यरुन्धावृणोत् ॥ ८ ॥

प्रबुधितानथ पालय पालयेत्युदयदार्तरवान् पशुपालकान् ।
अवितुमाशु पपाथ महानलं किमिह चित्रमयं खलु ते मुखम् ॥ ९ ॥

 प्रबुधितानिति । अथ प्रबुधितान् कृशानूष्मणा प्रबुद्धानवितुं त्रातुं पपाथ पीतवान् । इह महानलपाने किं चित्रं, यतोऽयं कृशानुस्ते मुखम् ॥ ९ ॥

शिखिनि वर्णत एव हि पीतता परिलसत्यधुना क्रिययाप्यसौ ।
इति नुतः पशुपैर्मुदितैर्विभो! हर हरे! दुरितैः सह मे गदान् ॥ १० ॥

 शिखिनीति । शिखिन्यग्नौ वर्णतो रूपभेदेनैव पीतता । अधुना क्रियया


  1. ति । च्युतजी’ क. ख. पाठः.
  2. 'भिः प्र' क. ख. पाठः.