पानक्रियाकर्मतयाप्यसौ पीतता । हे हरे ! दुरितैर्गदकारणभूतैर्दुष्कर्मफलैः सह
गदान् कार्यभूतान् हर नाशय ॥ १० ॥
इति कालियमर्दने कालियस्य भगवदनुग्रहवर्णनं भगवतो दवानलपानवर्णनं च
षट्पञ्चाशं दशकम् ।
रामसखः क्वापि दिने कामद ! भगवन् ! गतो भवान् विपिनम् । |
रामेति । रामः सखा यस्य स भवान् लसद्वेषः शोभमानालङ्कृतिविशेषः ॥ १ ॥
सन्दर्शयन् बलाय स्वैरं वृन्दावनश्रियं विमलाम् । |
सन्दर्शयन्निति । काण्डीरैयष्टीकैरुदतयष्टिभिरित्यर्थः । भाण्डीरकं नाम बटमागतः ॥ २ ॥
तावत् तावकनिधनस्पृहयालुर्गोपमूर्तिरदयालुः । |
तावदिति । तावकनिधनस्पृहयालुस्त्वन्निग्रहेच्छावान् गोपमूर्तिर्गोपवेषः अदयालुः निष्कृपः प्रलम्बनामा दैत्यः प्रलम्बबाहुं तादृशवाहुद्वययुक्तमापेदे प्राप ॥
जानन्नप्यविजानन्निव तेन समं निबद्धसौहार्दः । |
जानन्निति । जानन्नपि वैरोत्पादनाय निबद्धं सौहार्दं सुहृद्भावो येन । वटस्य निकटे समीपे पटुभिर्द्वन्द्वयुद्धक्रीडाकोविदैः पशुपैः श्रीदामादिभिर्व्याबद्धमितरेतरसम्बद्धं द्वन्द्वयुद्धमारब्धाः प्रारब्धवान् ॥ ४ ॥
*रामस्य सखा । ब्याख्यानरीत्या तु रामसखेति पाठः स्यात् ।