इति नन्वनुगृह्य वल्लर्वीपिनान्तेओपु पुरेव सञ्चरन् । |
इतीति । करुणया भक्तवात्सल्येन शिशिर आर्द्रहृदयः ॥ ११ ॥
इति गोपीवस्त्रापहारवर्णनं पष्टितमं दशकं सैकम् ।
ततश्च वृन्दावनतोऽतिदूरतो वनं गतस्त्वं खलु गोपगोकुलैः । |
तत इति । वृन्दावनतो बृन्दावनादतिंदूर तोऽतिदूरे ॥ १ ॥
ततो निरीक्ष्याशरणे वनान्तरे किशोरलोकं क्षुधितं तृषाकुलम् । |
तत इति । अशरणे गृहरहिते किशोरलोकं बालजनं तृषा पिपासया क्षुधा चाकुलम् । अदूरतस्तत्प्रदेशात् समीपे यज्ञपरान् कर्मप्रधानतया भक्तिज्ञानविमुखान् दीदिवियाचनायान्नयाचनाय तान् गोपान् व्यसर्जयः प्रेषयामासिथ ॥ २ ॥
गतेष्वथो तेष्वभिधाय तेऽभिधां कुमारकेष्वोदनयाचिषु प्रभो ! । |
गतेष्विति । तेऽभिधां कृष्णो व ओदनं याचत इति तव नामाभिधाय । श्रुतौ स्थिरा निश्चित बुद्धयोऽप्यश्रुतिं श्रवणाभावमभिनिन्युरभिनीतवन्तः । महीसुरोत्तमा ब्राह्मणश्रेष्ठम्मन्याः किञ्चिद् दास्यामि नेति वा नोचुरपि ॥ ३ ॥
अनादरात् खिन्नधियो हि बालकाः समाययुर्युक्तमिदं हि यज्वसु । |
अनादरादिति । यज्वसुं यायजूकेष्विदमर्थिनिराकरणं युक्तम् । भक्तमन्नम् ॥ ४ ॥