पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ६२]
२१७
इन्द्रयागविवातवर्णनम् ।


निरूप्य ढोषं निजमङ्गनाजने विलोक्य भक्तिं च पुनर्विचारिभिः ।
प्रबुद्धतत्त्वैस्त्वमभिष्टुतो द्विजैर्मरुत्पुराधीश! निरुन्धि मे गदान् ॥ १० ॥

 निरूप्येति । निजं दोषमङ्गनाजने भक्तिं च निरूप्य प्रबुद्धं तत्त्वं यैस्तैर्द्विजैरभिष्टुतः ॥ १० ॥


इति यज्वपत्न्युद्धरणवर्णनमेकषष्टितमं दशकम् ।

कदाचिद् गोपालान् विहितमखसम्भारविभवान्
 निरीक्ष्य त्वं शौरे ! मघवमदमुद्ध्वंसितुमनाः ।
विजानन्नप्येतान् विनयमृदु नन्दादिपशुपा-
 नपृच्छः को वायं जनक ! भवतामुद्यम इति ॥ १ ॥

 कदाचिदिति । विहिता उपार्जिता मखसम्भारविभवा इन्द्रयागसाधनरूपपदार्था यैस्तानेतान् नन्दादिपशुपान् विनयेन मृदु अनुद्धतं यथा भवति तथा अपृच्छः ॥ १ ॥

वभाषे नन्दस्त्वां सुत ! ननु विधेयो मघवतो
 मखो वर्षे वर्षे मुखयति स वर्षेण पृथिवीम् ।
नृणां वर्षायत्तं निखिलमुपजीव्यं महितले
 विशेषादस्माकं तृणसलिलजीवा हि पशवः ॥ २ ॥

 बभाष इति । उपजीव्यं सस्यादि । अस्माकं पशुवृत्तीनां विशेषाद्, यतस्तृणसलिलजीवनाः पशवः ॥ २ ॥

इति श्रुत्वा वाचं पितुरयि भवानाह सरसं
 धिगेतन्नो सत्यं मघवजनिता वृष्टिरिति यत् ।
अदृष्टं जीवानां सृजति खलु दृष्टिं समुचितां
 महारण्ये वृक्षाः किमिव बलिमिन्द्राय ददते ॥ ३ ॥