इतीति । धिग् अहो अन्धपरम्परा महतां मनोऽपि स्पृशति, यतो मघवजनिता वृष्टिरित्येतन्नो सत्यम् । यद् यस्माज्जीवानामदृष्टं कर्मफलं खलु वृष्टिं सृजति, न मघवा । सोऽप्यदृष्टेनैवैन्द्रं पदमाप्तः । अत्र हेतुमाह - महारण्य इति । अकृतेन्द्रयागानां वृक्षाणामपि वृष्टिकृतयोगक्षेमदर्शनादित्यर्थः ॥ ३ ॥
इदं तावत् सत्यं यदिह पशवो नः कुलधनं |
इदमिति । यदिहोक्तं पशवो नः कुरुधनमिति, तदिदं तावत् सत्यम् । अतस्तदाजीव्याय तृणसलिलसम्पत्तयेऽसौ प्रारब्धो बलिरचलभर्त्रे गोवर्धनाय, यतोऽचलो नस्तृणं जलं च ददाति, अतः समुचितः । फिञ्च धरणिदेवा ब्राह्मणाः, अतस्तेऽप्याराध्याः पूजनीया इति जगदिथ ॥ ४ ॥
भवद्राचं श्रुत्वा बहुमतियुतास्तेऽपि पशुपा |
भवदिति । उच्चैः पूर्वस्माद् विशिष्टबहुसाधनोपबृंहितं बलि पूजां अददुः । व्यधुर्विदधिरे । त्वं शैलात्मा शैलवदतिमहद् वपुर्गृहीत्वा आभीराणां गोपानां पुरतः शैलोऽस्मि प्रसन्नोऽस्मीति ब्रुवन् बलिमादः अभुङ्क्थाः ॥ ५ ॥
अवोचश्चैवं तान् किमिह वितथं में निगदितं |
अवोच इति । रूपान्तरेण गोपसमूहस्थश्च त्वं तान् गोपानेवं वक्ष्यमाणप्र-