पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२०
[स्कन्धः - १०
नारायणीये


सुरेन्द्र: कुद्धक्ष्चेद् द्विजकरुणया शैलकृपया-
 प्यनातङ्कोऽस्माकं नियत इति विश्वास्य पशुपान् ।
अहो किं नायातो गिरिभिदिति सञ्चिन्त्य निवसन्
 मरुद्गेहाधीश ! प्रणुद मुरवैरिन् ! मम गदान् ॥ १० ॥

 सुरेन्द्र इति । आतङ्कात् सङ्कटादन्योऽनातङ्कः सुखं नियतो निश्चितः । गिरिभिदिन्द्रः कुपितः किं नायात इति सञ्चिन्त्य निवसन् | प्रणुद त्यज ॥ १० ॥

इति इन्द्रयागविघातवर्णनं द्विषष्टितमं दशकम् ।


दहशिरे किल तत्क्षणमक्षतस्तनितजृम्भितकम्पितदिक्तटाः ।
सुषमया भवदङ्गतुलां गता ब्रजपदोपरि वारिधरास्त्वया ॥ १ ॥

 ददृशिर इति । अक्षतेनाविच्छिन्नेन स्तनितेन जृम्भितेन मेघव्याप्त्या च कम्पिता दिक्तटाः तत्स्थाश्चराचरा यैः । सुषमया शोभ्या भवदङ्गस्य तुलामुपमां गता वारिधरास्त्वया व्रजपदस्य त्वद्गृहस्योपरि ददृशिरे अदृश्यन्त ॥ १ ॥

विपुलकरकमिश्रैस्तोयधारानिपातै-
 र्दिशि दिशि पशुपानां मण्डले दण्ड्यमाने ।
कुपितहरिकृतान्नः पाहि पाहीति तेषां
 वचनमजित ! शृण्वन् मा बिभीतेत्यभाणीः ॥ २ ॥

 विपुलेति । विपुलकरकमिश्रैः स्थूलजलशर्करामिश्रैः । कुपितेन हरिणेन्द्रेण कृताद् वर्षादिति शेषः । मा विभीत भयं मा कुरुतेत्यभाणीरवादीः ॥ २ ॥

कुल इह खलु गोत्रो दैवतं गोत्रशत्रो-
 विहतिमिह स रुन्ध्यात् को नु वः संशयोऽस्मिन् ।
इति सहसितवादी देव! गोवर्धनाद्रि
 त्वरितमुदमुमूलो मूलतो बाल! दोर्भ्याम् ॥ ३ ॥