ता इति । कान्तोपसेवनपराः भर्तृशुश्रूषापराः ॥ ३ ॥
काक्ष्चिनिजाङ्गपरिभूषणमादधाना |
काचिदिति । निजाङ्गपरिभूषणं सर्वावयवभूषणम् आदधानाः कुर्वत्यः वेणुप्रणादमुपकर्ण्य त्वामागताः प्राप्ताः काश्चित् । कृतार्धभूषाः वेणुप्रणादमुपकर्ण्य तथैव कृतार्धभूषा एवागताः । तत्र विभूषिताभ्यः सर्वावयवभूषणसविलम्बाभ्यः ताः कृतार्धभूषा एव एता मत्प्रेमातिशयेन विस्मृतभूषणवैकल्या अहो इति ननु तव लोचनाय संरुरुचिरे तव नयनरुचिविषया बभूवुरित्यर्थः ॥ ४ ॥
हारं नितम्बभुवि काचन धारयन्ती |
हारमिति । हारोऽस्त्यस्मिन्निति हारी, तत्त्वं हारित्वं मनोहरत्वं च आत्मनः स्वस्य जघनस्य विशेषान्मनोहरत्वं मुग्धमुखी तुभ्यं भवते बभाष इव ॥ ५ ॥
काचित् कुचे पुनरसज्जितकञ्चुलीका |
काचिदिति । असज्जितकञ्चुलीका असंयोजितमात्रिका । तस्याः परवधूनां च व्यामोहतः । निरुपमेति । प्रणयातिशयरूपे राज्येऽवस्थाप्याभिषेकाय कुचभररूपकलशीघरेव ॥ ६ ॥