उपयातानां सुदृशां कुसुमायुधवाणपातविवशानाम् । |
उपयातानामिति । उपयातानां समीपं प्राप्तानां सुदृशां सुन्दरीणाम् अभिवाञ्छितं मारोत्सवं विधातुं कर्तुं कृतमतिर्निश्चितबुद्धिरपि प्रथमं ताः गोपीः वामं प्रतिकूलमिव जगाथ उक्तवान् ॥ १ ॥
गगनगतं मुनिनिवहं श्रावयितुं जगिथ कुलवधूधर्मम् । |
गगनेति । जगिथ उक्तवान् । नन्वनुपनीतस्य कुलवधूभिः कामोत्सवोऽधर्मस्तत्कर्त्रा प्रोक्त कुलवधूधर्मे कथं मुनीनां विश्वास इत्याशङ्कायामाह – धर्म्यं खल्विति । ते ईश्वरस्य वचनं धर्म्यं धर्मादनपेतम् । कर्म तु नो विश्वास्यम् । क्वाचिदधर्मरूपमपि भवति । तेन तव न दोषः, यतो निर्मल:, निर्गुणत्वात् कर्मानधिकारी त्वम् ॥ २ ॥
आकर्ण्य ते प्रतीपां वाणीमेणीदृशः परं दीनाः । |
आकर्ण्येति । ते तव प्रतीपां 'भवतीनां निशि भर्तॄन् विरय्येह मत्समीपागमनम् अनुचितम् । अतस्त्वरितमात्मगृहं याते त्यादिरूपतया प्रतिकूलाम् । दीनाः क्षीणमानसा मा मास्मान् परित्यजेति विलेपुः रोदनपूर्वकमुक्तवत्यः ॥ ३ ॥
तासां रुदितैर्लपितैः करुणाकुलमानसो मुरारे! त्वम् । |
तासामिति । लपितैर्वचनैश्च । ताभिः समं सह कामं यथेच्छम् अभिरन्तुं क्रीडितुं प्रवृत्तः आरब्धः ॥ ४ ॥
चन्द्रकरस्यन्दलसत्सुन्दरयमुनातटान्तवीथीषु । |