पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२४९

एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ६८]
२३३
रासक्रीडावर्णनम् ।


तव विभो ! परा कोमलं भुजं निजगलान्तरे पर्यवेष्टयत् ।
गलसमुदतं प्राणमारुतं प्रतिनिरुन्धतीवातिहर्पुला ॥ ३ ॥

 तवेति । अपरा तव भुजं गृहीत्वा निजगलान्तरे पर्यवेष्टयद् बबन्ध त्वद्विरहव्यथया निर्गमिष्यन्तं प्राणमारुतं प्रतिनिरुन्धतीव ॥ ३ ॥

अपगत्रता कापि कामिनी तव मुखम्बुजात् पूगचर्वितम् ।
प्रतिगृहय्य तद् वॠपङ्कजे निदधती गता पूर्णकामताम् ॥ ४ ॥

 अपगतेति[] प्रतिगृहय्य गृहीत्वा तत् पूगचर्वित स्ववत्र्कपङ्कजे निदधती आस्वादयन्ती पूर्णकामतां सञ्जातजीवनफलतां गता प्राप्ता ॥ ४ ॥

विकरुणो बने संविहाय मामपगतोऽसि का त्वामिह स्पृशेत् ।
इति सरोषया तावदेकया सजललोचनं वीक्षितो भवान् ॥ ५ ॥

 विकरुण इति । वने मां संविहाय अपगतो दूरं गतोऽसि । अतो विकरुणो निष्कृपस्त्वमिदानीं किमर्थमागतोऽसि । इह अस्मासु का त्वां स्पृशेदिति सजललोचनं यथा भवति तथा वीक्षितः ॥ ५ ॥

इति मुदाकुलैर्वल्लवीजनैः समुपागतो यामुने तटे ।
मृदुकुचाम्बरैः कल्पितासने घुसुगभासुरे पर्यशोभयाः ॥ ६ ॥

 इतीति । मृदुभिः कुचाम्बरैः उत्तरीयै कल्पिते आसने घुसृणभासुरे कुङ्कुमशोभिते ॥ ६ ॥

 ततश्च सहोपविष्टास्ता भवन्तमाहुरित्याह-

कतिविधा कृपा केऽपि सर्वतो धृतदयोदयाः केचिदाश्रिते।
कतिचिदीदृशा मादृशेष्वपीत्यभिहितो भवान् बल्लवीजनैः ॥ ७ ॥

 कंतिविधेति । इह जगति कतिविधा कृपा । केऽपि सर्वतः सर्वजनेषु घृतदयोदयाः कृपावन्तः । केचिदाश्रिते जन एव धृतदयोदयाः । कतिचित् केचिद् मादृशेष्वाश्रितेष्वपि ईदृशाः भवानिव निष्करुणाः । तत्र तत्त्वं ब्रूहीति शेषः ॥ ७ ॥


  1. 'ति । त' क. ख. पाठः.