टीरसारवन्नवसौरभं तब भुजं वञ्चनेन अन्यापदेशेन सञ्चुचुम्ब । तज्जनितम् उरुपुलकाङ्करं यस्मिन् ॥ ६ ॥
कापि गण्डभुवि सन्भिधाय निजगण्डमाकुलितकुण्डलं |
कापीति । तव गण्डभुवि निजगण्डम् आचलितकुण्डलं यथा भवति तथा सन्निधाय पूगचर्वितरसामृतम् अमृतमयं वीटिकारसमन्वबाप । सम्मदेन प्रमोदातिशयेन उन्मददशान्तरं पूर्वापरानुसन्धानबैधुर्यलक्षणमवस्थान्तरम् ॥ ७ ॥
गानमीश! विरतं क्रमेण किल वाद्यमेलनमुपारतं |
गानमिति । अङ्गनाः ब्रह्मसग्मदरसेन ब्रह्मानन्दानुभव[१] रसेन आकुलाः परवशा: केवलं सदसि ननृतुः । नर्तनस्य कैवल्यमेवाह - [२]गानमिति । ज्योतिषां ग्रहनक्षत्रादीनां कदम्बकमपि दिवि विलम्बितमित्यनेन सूर्योदयविलम्बात् त्रियामायामो द्योत्यते । किमपरं ब्रुवे गानवाघादौ प्रसाद: नीबीकुन्तलगात्रिकाविश्लथनानवगतिरित्यादि भुविस्थानां पारवश्यं किमर्थमुच्यत इत्यर्थः ॥ ८ ॥
मोदसीम्नि भुवनं विलाप्य विह्टतिं समाप्य च ततो विभो ! |
'मोदेति । मोदसीम्नि ब्रह्मानन्दे भुवनं द्रष्ट्टलोकं विलाप्य मज्जयित्वा