कदापि खलु सीरिणा विहरति त्वयि स्त्रीजनै- |
कदापीति । सीरिणा वलभद्रेण सह विहरति क्रीडति सति धनदानुगो वैश्रवणभृत्यः अवलाः गोपीः : जहार । अतिद्रुतं शीघ्रम् अनुद्रुत: अनुगत: भयान्मुक्तो नारीजनो येन तं शङ्खचूडं रुरोजिथ निगृहीतवान् तस्य शिरोमणिं हलभृतेऽग्रजायाददाश्च ॥ ४ ॥
दिनेषु च सुहृज्जनैः सह वनेषु लीलापरं |
दिनेष्विति । एवं दिनेषु प्रतिदिनं च सुहृज्जनैः गोपबालकैः सह । मनोभवादपि मनोहरम् । रसितम् आस्वादितं वेणुनाद एवामृतं येन । अमरीदृशां स्वर्गस्त्रीनयनानाम् अमृतपारणादायिनं निजरूपामृतपानमापादयन्तम् । विरहेण क्षणं जातेन तापिताः सन्तप्तहृदया: किनु नालपन्, तत्तदवस्थां विचिन्त्य विलेपुरित्यर्थः ॥ ५ ॥
भोजराजभृतकस्त्वथ कश्चित् कष्टदुष्टपथदृष्टिररिष्टः । |
भोजेति । भोजराजस्य कंसस्य भृतकः भृत्यः । कष्टा हिंसाबहुला दुष्टपथे परोपद्रवे दृष्टिरन्वेषणं यस्य | निष्ठुरा क्रूरा आकृतिर्यस्य । वृषरूपी अपष्टुनिनादः क्रूरस्वनः भवते तिष्ठते स्म भवदर्शनपथे स्थितवान् ॥ ६ ॥
शाकरोऽथ जगतीधृतिहारी मूर्तिमेष बृहतीं प्रदधानः । |