यत्नेषु सर्वेष्वपि नावकेशी केशी स भोजेशितुरिष्टवन्धुः । |
यत्रेष्विति । यत्नेषु नावकेशी अवन्ध्यः स केशी [२] त्वं सिन्धुजया लक्ष्म्या अवाप्य इति सिन्धुजावाप्यश्चेदहमपि सिन्दुजो भवामीति मत्वेव ॥ १ ॥
गन्धर्वतामेष गतोऽपि रूक्षैर्नादैः समुद्वेजितसर्वलोकः । |
गन्धर्वतामिति । गन्धर्वताम् अश्वताम् गतोऽपि रूक्षैर्नादैः । गन्धर्वो हि मृदुनादः ॥ २ ॥
तार्क्ष्यर्पिताङ्घ्रेस्तव तार्क्ष्य एष चिक्षेप वक्षोभुवि नाम पादम्। |
तार्क्ष्येति । एष तार्क्ष्यो दनुजः । भृगुर्हि विष्णुं वक्षसि पदाहन् । तत्कथां निशम्य तत् पदाहननं स्वेनात्मनापि शक्यमिति मोहादिव ॥ ३ ॥
प्रवञ्चयन्नस्य खुराञ्चलं द्रागमुं च चिक्षेपिथ दूरदूरम् । |
प्रवञ्चयन्निति । खुगञ्चलं खुरप्रहारं प्रवञ्चयन् छलयन् द्राग् झटिति पादयोर्गृहीत्वामुं दूरदूरं चिक्षेपिथ विससर्जिथ । अतिमूर्छितेन प्रवृद्धेन। आद्रुतः अभिपतितः ॥ ४ ॥
त्वं [३]वाहदण्डे कृतधीक्ष्च वाहादण्डं न्यधास्तस्य मुखे तदानीम् । |
त्वमिनि । वाहदण्डे अश्वववधे । बाहादण्डं भुजदण्डम् । तद्द्वृद्ध्या बाहादण्डवृद्धया । सप्तभिवन् अश्वीभन्नपि भगवत्यैक्यं सायुज्यम् । वाहदण्डे कृतधीरपि बाहादण्डमिति विरोधश्च द्योत्यते ॥ ५ ॥