आलम्भमात्रेण पशोः सुराणां प्रसादके नून्न इवाश्वमेधे । |
आलम्भेति । अश्वमेधयागे हि पशुमालभ्य तेन यजने कृत एव देवानां प्रसादः स्यात् । इह त्वालम्भमात्रेण अश्वहिंसामात्रेण सुराणां प्रसाहो जातः । अतो नूत्ने अपूर्वे अश्वमेधयागे अश्ववधे वा कृते ततः केशवनामधेयं त्वां तुष्टुवुः ॥ ६ ॥
कंसाय ते शौरिसुतत्वप्रुक्त्वा तं तद्धोत्कं प्रतिरुध्य वाचा । |
कंसायेति । नायं कृष्णो नन्दसुतः, किन्तु देवक्या अष्टममुत इति ते शौरिसुतत्वमुक्त्वा ततन्तद्वधोत्कं वसुदेववधोघुक्तं कंसं वाचा प्रतिरुध्य केशिक्षपणावसाने प्राप्तेन ॥ ७ ॥
कदापि गोपैः सह काननान्ते निलायनक्रीडनलोलुनं त्वाम् । |
कदापीति । निलायनक्रीडने तिरोधाननिरीक्षणत्पर्श नरूपे सश्रद्धम् । व्योमचरोपरोधी देवशत्रुः ॥ ८ ॥
स चोरपालायितवल्लवेषु चोरायितो गोपशिशुन् पशूंध । |
स इति । केचिद् वल्लवाश्चोरायिताः । केचित् पालायिताः । मयपुत्रस्तु गोपवेषधारी चोरायितः पशून् गोपशिशुंश्च पर्वतगुहासु कृत्वा निक्षिप्य पिद्धे बबन्ध । त्वया परिमर्दितो निगृहीतः ॥ ९ ॥
एवंविधैश्चाद्रुतकेलिभेदैरानन्दमूर्छामतुलां व्रजस्य । |