एवंविधैरिति । आनन्दस्य मूर्छी वृद्धिं पदे पदे अनुक्षणम् असीमं निरवधि । अत्र हेतुः परात्मरूपीति ॥ १० ॥
इति केशिवधवर्णनं व्योमासुरवधवर्णनं च
एकसप्ततितमं दशकम् ।
अथ कंसवधमाह दशकचतुष्टयेन-
कंसोऽथ नारदगिरा व्रजवासिनं त्वा- |
कंस इति । विष्णुस्त्वद्वधार्थं देवक्यां जातो नन्दव्रजे वसतीति नारदस्य गिरा दीर्णहृदयश्चकितमतिः गान्दिनेयम् अक्रूरं कार्मुकमखच्छलतो धनुर्यागनिरीक्षणार्थमिति व्याजेन अहिनोत् प्रेषयामास ॥ १ ॥
अक्रूर एष भवदङ्घ्रिपरश्चिराय |
अक्रूर इति । भवदङ्घ्रिपरः भवद्भक्तः क्षितिपालभीत्या कंसभयेन अहं कृष्णदर्शनाक्षम इति मनो यस्य स त्वद्दर्शनाक्षममनाः ॥ २ ॥
सोऽयं रथेन सुकृती भवतो निवासं |
स इति । त्वयि त्वद्वित्रये मनोरथगणान् दर्शनस्पर्शनादिरूपान् मनसा घार्यमाणान् आस्वादयन् अपायभयेन स्वस्य कंसभृत्यतादिहेतुकेन मगवदर्शनाभा-