वभयेन ममाद्य श्रीकृष्णदर्शनं भूयादिति दैवं प्रार्थयन् । एवं पथि त्वामेव चिन्तयन् नान्यत् किञ्चिदपि व्यजानात् ॥ ३ ॥
तदेवाह -
द्रक्ष्यामि वेदशतगीतगतिं पुमांसं |
द्रक्ष्यामीति । वेदशतैः उपनिषद्भिः गीता प्रतिपादिता गतिः स्वरूपं यस्य तं पुमांसं पुरुषं किंस्विद् द्रक्ष्यामि स्प्रक्ष्यामि स्पर्शनसुखमनुभवामि । अपिनामैवं भूयात् । स खलु भगवान् मां कृताञ्जलिं 'हे अदूरेति किं वक्ष्यते । क्व नु कस्मिन् प्रदेशे मया स वीक्षितः स्यात् । इत्थं भवत्स्मरणनैरन्तर्येण तदालम्बनतया भवन्मयं मार्ग निनाय अतिक्रान्तवान् ॥ ४ ॥
भूयः क्रमादभिविशन् भवदघ्रिपूतं |
भूय इति । प्रमोहे लग्नो बहिर्विकाराभावान्मूढ इव किं किं दशान्तरं नावाप ॥ ५ ॥
पश्यन्नवन्दत भवद्विवृतिस्थलानि |
पश्यन्निति । भवद्विहृतिस्थलानि क्रीडा स्थानानि अवन्दत । भवच्चरणाङ्कितेषु पां-
- ↑ 'दि' क. पाठः.