पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४६
[स्कन्धः - १०
नारायणीये


सुष्ववेष्टत श्रीकृष्णपादपांसव इति सर्वाङ्गेप्वकरोत् । किं ब्रूमहे । तदा भवतः काले बहुजना जाताः, तथाप्यक्रूरवदेवं भक्त्या तरलाः परवशाः विरला न्यूनाः ॥ ६ ॥

सायं स गोपभवनानि भवच्चरित्र-
 गीतामृतप्रसृतकर्णरसायनानि ।
पश्यन् प्रमोदसरितेव किलोह्यमानो
 गच्छन् भवद्भवन न्निधिमन्वयासीत् ॥ ७ ॥

 सायमिति । सायं सन्ध्याकाले भवच्चरित्रगीतमेवामृतं, तत्प्रसृतममृतनिष्यन्दः, तदेव कर्णरसायनं श्रोत्रानन्दकरं येषु तानि गोपभवनानि पश्यन् प्रमोदरूपया सरिता नद्या उद्यमान इव ॥ ७ ॥

तावद् ददर्श पशुदोहविलोकलोलं
 भक्तोत्तमागतिमिव प्रतिपालयन्तम् ।
भूमन् ! भवन्तमयमग्रजवन्तमन्त-
 र्ब्रह्मानुभूतिरससिन्धुमिवोद्वमन्तम्* ॥ ८ ॥

 तावदिति । पशुदोहविलोकने लोलं सश्रद्धं भक्तोत्तमस्याक्रूरस्य आगतिं प्रतिपालयन्तमिवायमक्रूरो भवन्त ददर्श ब्रह्मानुभूतिर्ब्रह्मज्ञानं, तज्जन्यो रससिन्धुः सुखार्णव आनन्दः । पथि श्रीकृष्णाकाराकारितायाश्चित्तवृत्तेः अन्तःस्थत्वाद् भगवद्दर्शनसमनन्तरं तत्या इन्द्रियद्वारा बहिर्निर्गमनाच्चान्तःस्थं श्रीकृष्णदर्शनसुखं बहिरुद्वमन्तमिवेत्यर्थः ॥ ८ ॥

सायन्तनाप्लवविशेषविविक्तगात्रौ
 द्वौ पीतनीलरुचिराम्बरलोभनीयौ ।
नातिप्रपञ्चधृतभूषणचारुवेषौ
 मन्दस्मितार्द्रवदनौ स युवां ददर्श ॥ ९ ॥


 * बहिर्भवनानुकूलव्यापारवृत्तेरुद्वमतेरिह बहिर्भावमात्रे वृत्तिर्निवृत्तप्रेषणपक्षाश्रयणेन । एवञ्चाक्रूरहृदयाद् बहिर्भवन्तं ब्रह्मानुभूतिरसस्थिन्धुमिव स्थितमिति भगवद्विशेषणमुपपन्नम् । अस्या एवापपत्तये व्याख्याने 'पथि श्रीकृष्ण'त्याघुक्तिः ।