निशमय्य तवाथ यानवार्तो भृशमार्ताः पशुपालवालिकास्ताः । |
निशमय्येति । यानवार्तो श्वः प्रभाते श्रीकृष्णं नेतुमागतोऽक्रूर इत्येवरूपाम् । किमिदम् अमृतास्वादे विषगनमिवातिकष्टमवस्थान्तरमापतितम् । कथं न्विदम् अस्मद्भाग्यदोषाद् नन्दसूनोर्निष्करुणतया वा इत्येवमादीनि परिदेवितानि बिलपनान्यकुर्वन् ॥ १ ॥
परिदेवितान्येवाह-
करुणानिधिरेष नन्दसूनुः कथमस्मान् विसृजेदनन्यनाथाः । |
करुणेति । नो दैवं भाग्यम् एवं निरतिशयसुखप्रदं सहसा नष्टं चासीत् किमु बत खिद्यामहे ॥ २ ॥
चरमप्रहरे प्रतिष्ठमानः सह पित्रा निजमित्रमण्डलैश्च । |
चरमेति । चरमप्रहरे अन्त्ययामे प्रतिष्ठमानो निर्गच्छन् एकं सखायमा[१]प्तं दूततया व्यमुचः प्रेषितवान् ॥ ३ ॥
अचिरादुपयामि सन्निधिं वो भविता साधु मयैव सङ्गमश्रीः । |
अचिरादिति । वो युप्माकं मया सङ्गमश्रीः संभोगसौख्यम् अचिराद् भवितैव । किञ्च अमृताम्बुनिधौ सुखार्णवे, अथवा अमृतं मोक्षस्तद्रूपेऽम्बुनिधौ । अन्ते मोक्षमपि वो वितरिप्यामीत्यर्थः ॥ ४ ॥
सविषादभरं सयाच्ञमुच्चैरतिदूरं वनिताभिरीक्ष्यमाणः । |
- ↑ 'माहूय द्’ ब. पाठः.