हर्षभिन्धोनुवृत्या परमानन्दानुभवानिवृत्तेः पुलकावृतस्त्त्वां ययौ उन्मज्ज्य त्वत्समीमा ॥ ९ ॥
किमु शीतलिमा महान् जले यत् पुलकोऽसाविति चोदितेन तेन । |
किन्विति । अतिहर्षनिरुत्तरेण भगवतः स्वरूपदर्शनेनानन्दबाप्पनिरुद्धकप्ठतथा अदत्तोत्तरेण ॥ १० ॥
इति भगवतो मथुराप्रस्थानवर्णनं यमुनाजले अक्रूरस्थ
भगवत्स्वरूपसाक्षात्कारादिवर्णनं च
त्रिसप्ततितमं दशकम्
सम्पाप्तो मथुरां दिनार्धविगमे तत्रान्तरस्मिन् वस- |
सम्प्राप्त इति । दिनार्धविगमे मध्याह्ने तत्र मथुरायाम् अन्तरस्मिन्नारामे काङ्कोद्याने वसन् राजपथं राजमार्गं प्रापः प्राप्तवान् । चिरश्रुत्या धृतं व्यालोककौतूहलं येषां तेभ्यः स्त्रीपुंसेभ्यः उद्यन्ति फलोन्मुखानि अगण्यानि अपरिमेयानि पुण्यान्येव निगलाः शृङ्खलाः तैराकृष्यमाणः किन्नु ॥ १ ॥
तत्र कथमपि त्वत्सादृश्यानुमेयसुकृता मथुरास्त्रियस्त्वदर्शनसुखमन्वभूवन्नित्याह-
त्वत्पादघुतिवत् सरागसुभगास्त्वन्मूर्तिवद् योषितः |
- ↑ 'प्तो' इ. च. पाठः.