केलीमुक्तोऽथ गोपीकुचकलशचिरस्पर्धिनं कुम्भमस्य |
पापिष्ठेति । हे पापिष्ठ! अतिशयेन दुष्ट! मार्गाद् द्रुततरम् अपेहि अपसर इति त्वद्वचसा निष्ठुरा स्वतः क्रूरा क्रुद्धा च बुद्धिय तस्याम्बष्ठस्य महामात्रस्य प्रणोदात् चोदनया । केलीमुक्तः क्रीडया हत्तिकराद् विगलितः अथ अनन्तरं गोपीकुचकलशाचिरस्पर्धिनम्, अत एव तत्साम्यापादक पुण्येन भगवत्करस्पर्शलाभः, अस्य कुम्भं मस्तकं व्याहत्य हस्तेन ताडयित्वा चरणभुवि चरणचतुष्टयमध्ये[१] लीलयालीयथाः ॥ २ ॥
हस्तप्राप्योऽप्यगम्यो झटिति मुनिजनस्येव धावन् गजेन्द्रं |
हस्तेति । हस्तेन शुण्डया प्राप्यः स्पृश्यमानोऽप्यगम्योऽम्पृश्यमानो यथा भवति तथा झटिति धावन् क्रीडन् भूमौ स्वयमापत्य दण्डवत् पतित्वा पुनः पश्चादभिपततो दन्ताभ्यां भूमौ घ्नतस्तस्य सजीवं जीवेन सह दन्तं मूलादखण्डमुन्मूल्य तन्मूलगानि दन्तमूलस्थानि महितानि परार्ध्यानि महान्ति स्थूलानि मौक्ति कान्यात्ममित्रे श्रीदाम्नि प्रादाः एमिर्लालेतवि चितं मनोहरतया रचितं हारं मालां राधिकायै मत्प्रेयस्यै दिश प्रदेहीति वचनपूर्वकम् ॥ ३ ॥
गृह्णानं दन्तमंसे युतमथ हलिना रङ्गमङ्गाविशन्तं |
गृह्णानमिति । अङ्ग! हे श्रीकृष्ण ! इतर न्तमंसे गृह्णानेन हलिना युतं