एवं भक्तिः सकलभुवने नेक्षिता न[१] श्रुता वा |
एवमिति । एवं गोपिकानामिव । शास्त्रौघैस्तपसा वा किं फलम् । तद्रहितानामपि भक्ति[२]दर्शनान्न शास्त्रादिफलं भक्तिरित्यर्थः । तस्माद् गोपिकाभ्यो नमोऽस्तु । इति ‘एवम् एवंभक्तिरित्यादिनमोऽस्त्वि'त्यन्तमन्त्र पुरस्सरं पुनः पुनस्ता नमस्कृत्य आनन्दाकुलं गोकुलादुपगतं त्वत्सन्निधिं प्राप्तं[३] तं त्यक्तभक्ताभिमानमुद्धवं दृष्ट्वा हृष्टः इदानीमस्य मत्सखित्वाधिकारो जात इति सन्तुष्टः ॥ १२ ॥
इति उद्धवदूत्यवर्णनं षट्सप्ततितमं दशकं सैकम् ।
सैरन्ध्रयास्तदनु चिरं स्मरातुराया |
सैरन्ध्रया इति । अद्यैष्यति कान्त इति प्रतिदिनं तदुचितवेषभूषणविभवसंभरणपूर्वकं वासगृहे प्रतिपालनात् वासकसज्जिकायाः सैरन्ध्रया अनुलेपदाच्या आवासं सललितं ललितवेषभूषणसहायसम्पत्सहितं यथा भवति तथा यातोऽभूः । त्वदुपगमोत्सवं त्वत्सङ्गमकौतुकम् ॥ १ ॥
उपगते त्वयि पूर्णमनोरथां |