अथ विदर्भसुतां खलु रुक्मिणीं प्रणयिनीं त्वयि देव! सहोदरः । |
अथेति । सहोदरो रुक्मी । स्वयं, नान्ये पित्रादयः, चेदिमहीभुजे शिशुपालाय अदित्सत दातुमैच्छत् । स्वतमसा स्वाज्ञानेन तमसाधुं चेदिनृपम् उपाश्रयन् ॥ ३ ॥
चिरधृतप्रणया त्वयि बालिका सपदि काङ्क्षितभङ्गसमाकुला । |
चिरेति । कदनङ्गेन विनिर्मितं स्वस्य कढ़नं पीडाम् ॥ ४ ॥
द्विजसुतोऽपि च तूर्णमुपाययौ तव पुरं हि दुराशदुरासदम् । |
द्विजेति । दुराशदुरासदं हि दुष्टाशयैरेव दुष्प्र[१]वेशम् | भवतापं संसारदुःखं हरतीति भवतापहृत् ॥ ५ ॥
स च भवन्तमवोचत कुण्डिने नृपसुता खलु राजति रुक्मिणी । |
स चेति । कुण्डिने विदर्भपुरे । तया प्रहितोऽस्मि ॥ ६ ॥
रुक्मिण्याः सन्देशमाह द्वाभ्यां---
तव हृतास्मि पुरैव गुणैरहं हरति मां किल चेदिनृपोऽधुना । |
तवेति । गुणैः पाशस्थानीयैस्तव भक्तवात्सल्यादिगुणैः अहं पुरा स्वयंवरप्रसङ्गात् प्रांगेव । अधुना स्वयंवरे चेदिनृपः शिशुपालः मां त्वद्धृतमनसं हरति हर्तुमुत्सहते किल । अयि कृपालय! भक्तवत्सल ! मां पालय शरीरमपि हृत्वा मनसा संयोजयेति तथा प्रजगदे ॥ ७ ॥
- ↑ 'व्प्रापम् ।' क. ग. पाठ:.