पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२८७

एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ७९]
२७१
रुक्मिणीपरिणयवर्णनम् ।


क्क नु गतः पशुपाल इति क्रुधा कृतरणा यदुभिश्च जिता नृपाः ।
न तु[१] भवानुदचाल्यत तैरहो पिशुनकैः शुनकैरिव केसरी ॥ ८ ॥

 क्क नु गत इति । कृतो रणो यैः ते नृपाः यदुभिर्जिताः पराजिताः । तैः पिशुनकैः दुर्जनैः भवान् न तूदचाल्यत, तान् भवान् नाजीगणदित्यर्थः । शुनकैः श्वभिः केसरीव ॥ ८॥

तदनु रुक्मिणमागतमाहवे वधमुपेक्ष्य निवध्य विरूपयन् ।
हृतमदं परिमुच्य बलोक्तिभिः पुरमया रमया सह कान्तया ॥ ९ ॥

 तदन्विति । रुक्मिणं विरूपयन् वपनादिना विरूपं कुर्वन् बलोक्तिभिः अग्रजवचनैः परिमुच्य विगलितबन्धनं कृत्वा रमया कान्तया सह पुरमयाः प्राप्तवान् ॥ ९ ॥

नवसमागमलज्जितमानसां प्रणयकौतुकजृम्भितमन्मथाम् ।
अरमयः खलु नाथ! यथासुखं रहसि तां हसितांशुलसन्मुखीम् ॥१०॥

 नवसमागमेति । हसितांशुभिर्लसन्मुखीं तां रहस्यरमयः ॥ १० ॥

विविधनर्मभिरेवमहर्निशं प्रमदमाकलयन् पुनरेकढ़ा ।
ऋजुमतेः किल वक्रगिरा भवान् वरतनोरतनोदतिलोलताम् ॥ ११ ॥

 विविधनर्मभिरिति । प्रमदं हर्षमाकलयन् जनयन् । वऋगिरा वक्रोक्तया ऋजुमतेः रुक्मिण्याः अतिलोलतां परवशतामतनोत् ॥ ११ ॥

तदधिकैरथ लालनकौशलैः प्रणयिनीमधिकं [२]रमयन्निमाम् ।
अयि मुकुन्द ! भवच्चरितानि नः प्रगदतां गदतान्तिमपाकुरु ॥ १२ ॥

 तदधिकैरिति । प्रगदतां स्तुवतां गदतान्ति रोगपीडाम् अपाकुरु ॥१२॥

इति रुक्मिणीपरिणयवर्णनम् एकोनाशीतितमं दशकं सद्विकम् ।



  1. 'हि' घ. ङ. पाठः.
  2. 'सुखय' ग. घ. ङ. च. पाठः.