पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२९६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८०
[स्कन्ध - १०
नारायणीये



पुरीपालः शैलप्रियदुहित्नाथोऽस्य भगवान्
 समं भूतत्रातैर्यदुबलमशङ्कं निरुरुधे ।
महाप्राणो वाणो शटिति युयुधानेन युयुधे
 गुहः प्रधुम्नेन त्वमपि पुरहन्त्रा जघटिषे ॥ ५ ॥

 पुरीपाल इति । अस्य बाणस्य पुरीपालः शैलस्य हिमवतः प्रियदुहितुः पार्वत्याः नाथो भगवान् । महाप्राणः महाबलः । त्वमपि पुरहन्त्रा श्रीशङ्करेण सह जघटिषे अयुध्यथाः ॥ ५ ॥

निरुद्धाशेषास्त्रे मुमुहुषि तवास्त्रेण गिरिशे
 द्रुता भूता भीताः प्रमथकुलवीराः प्रमथिताः ।
परास्कन्दत् स्कन्दः कुसुमशरवाणैश्च सचिवः
 स कुम्भाण्डो भाण्डं नवमिव बलेनाशु विभिदे ॥ ६ ॥

 निरुद्धेति । निरुद्धानि प्रत्यस्त्रैः शमितानि अशेषास्त्राणि यस्य । तव मोहनास्त्रेण मुमुहुषि मोहं गते च सति । द्रुताः पलायिताः । प्रमथिताः पीडिताः । कुसुमशरस्य प्रद्युम्नस्य बाणैः स्कन्दः परास्कन्दत् प्रतिनिवृत्तः । बाणस्य सचिवः कुम्भाण्डो नवं जलपूर्ण मृण्मयं भाण्डमिव बिभिदे भिन्नः ॥ ६ ॥

चापानां पञ्चशत्या प्रसभमुपगते छिन्नचापेऽथ वाणे
 व्यर्थे याते समेतो ज्वरपतिरशनैरज्वरि त्वज्ज्वरेण ।
ज्ञानी स्तुत्वाथ दत्त्वा तव चरितजुषां विज्वरं स ज्वरोऽगात्
 प्रायोऽन्तर्ज्ञानवन्तोऽपि च बहुतमसा रौद्रचेष्टा हि रौद्राः ॥ ७ ॥

 चापानामिति । बाणे व्यर्थे विरथे याते ज्वरपतिर्माहेश्वर[]ज्वरः त्वज्ज्वरेण समेतो युध्यन् अशनैर्झटिति अज्वरि सन्तप्तोऽभूत् । अथ माहेश्वरो ज्वरः ज्ञानी त्वां स्तुत्वा त्वत्प्रसादात् तव चरितजुषां विज्वरं ज्वराभवं दत्त्वानुगृह्य स माहेश्वरो ज्वरोऽगात् । यद्वा सज्वरः सन्तापयुक्तः । यतोऽन्तर्हृदि ज्ञानवन्तोऽपि बहुतमसा तमोगुणाधिक्येन रौद्रचेष्टाः क्रूरकर्माणो हि रौद्राः रुद्रपार्षदाः ॥ ७ ॥


  1. 'रस्त्व' क. ग. पाठः.